________________
10
चतुर्थः पल्लवः]
[१५५ अर्धराज्यं ददे दत्ता, हस्त्यश्वरथपत्तयः । रत्नपालस्तदा भूपो, मार्गणैरुपलक्षितः ॥३४१।। ततः प्रमुदितोऽवादीद् बलवाहनभूपतिः । अहो मे भाग्ययोगोऽयं, घृतं घेवरमध्यगम् ॥३४२॥ पयोमध्ये सिताक्षोदो, मिलिते मणिकाञ्चने । अनयोः सदृशो योगो, मत्सुतारत्नपालयोः ॥३४३।। राज्यभ्रष्टेन भूपेन, परिणीता नृपाङ्गजा ।
लब्धं राज्यं विदेशेऽपि, पुण्यैः किङ्कि न सम्भवेत् ? ॥३४४॥ यतः- धर्मसिद्धौ ध्रुवा सिद्धिघुम्नप्रद्युम्नयोरपि ।
दुग्धोपलम्भे सुलभा, सम्पत्तिर्दधिसप्पिषोः ॥३४५॥ अथान्यदा रत्नपालो, जजागार निशात्यये ।
सस्मार पैतृकं राज्यं, हृतं यद् दुष्टमन्त्रिणा ॥३४६।। दूहा- बेटइ जायइ कवण गुण, अवगुण कवण मूएण ।
जइ बप्पीकी मुंहडी, चंपिज्जइ अवरेण ॥३४७॥ श्वशुरं तमनुज्ञाप्य, रत्नवत्या च संयुतः । चतुरङ्गचमूयुक्तश्चचाल स्वपुरं प्रति ॥३४८॥ स्वराज्यवालनकृते, सोऽविच्छिन्नप्रयाणकैः । वनमध्ये गतः क्वापि, कटकं स्थापितं निशि ॥३४९।। जजागार निशीथे च, गीतं शुश्राव सुन्दरम् । उत्थाय कौतुकी भूपोऽऽचालीद् गीतानुसारतः ॥३५०॥ वंशवीणाध्वनिं शृण्वन् , गच्छन्मार्गे ददर्श सः । प्रासादं पुण्ययोगेन, मध्ये यावद्ययौ नृपः ॥३५१।। विद्याधर्यो वरास्तावद्विनोदङ्गीतनृत्ययोः । कृत्वा नत्वा जिनान् स्तुत्वा, गताः स्थानं निजं निजम् ॥३५२॥ तन्मध्ये दिव्यवेषैका, रूपरेखाविमोहिनी । विमानस्था च गच्छन्ती, दृष्टा राज्ञा सखीवृता ॥३५३।।
25