________________
१४]
5
[धर्मकल्पद्रुमः सर्वप्राणिषु निष्कषायहृदयं कृत्वा त्रिधा क्षामणां, धन्यः पञ्चनमस्कृतिस्मृतिपरः कोऽप्युज्झति स्वां तनुम् ॥३२८॥ शुभध्यानधरो भूत्वा, मृत्वा श्राद्धः सरोऽभवत् ।
कृतस्तस्याङ्गसंस्कारो, राज्ञोपकृतिकारिणा ॥३२९॥ यतः- उपकारकराः प्रायो विरला एव सज्जनाः ।
उपकारमानिनस्तु , परं सन्ति न सन्ति वा ॥३३०॥ रत्नपालस्ततः पूर्वदेशं प्रति कियद्ययौ । अग्रे नगरमद्राक्षीत् साक्षाद् देवपुरं परम् ॥३३१॥ यावन्मनोहरे तस्मिन्नगरे प्रविवेश सः । पटहोद्घोषणां काञ्चित् तावच्छूश्राव दूरतः ॥३३२॥ तच्छ्रुत्वा रत्नपालेन, पप्रच्छे कोऽपि पूरुषः । पटहो वाद्यते कस्मात् ततोऽवादीन्नरोऽपि सः ॥३३३॥ अस्त्यत्रैव पुरे राजा, बलवाहननामतः । तस्य रत्नवती कन्या, धन्या नारीजनेऽखिले ॥३३४॥ यौवने सा समायाता, गता चाद्य सरोवरे । तत्र कृत्वा जलक्रीडां, विनोदाय वनेऽविशत् ॥३३५।। रममाणा सखीयुक्ता, वने सा दैवयोगतः । दष्टा दुष्टेन सर्पण, वेगेन प्राविशत् पुरे ॥३३६।। उपाया बहवो राज्ञा, विषनाशाय कारिताः । मन्त्रौषधैर्गुणो नासीद् विषणात्यन्तघारिता ॥३३७।। वादयेन्नगरे भूप, इत्युक्त्वा पटहं ततः । जीवापयति यः कन्यामेषा तस्यैव दीयते ॥३३८॥ श्रुत्वेति रत्नपालेन, संस्पृष्टः पटहस्ततः । आनीतः स नृपस्याग्रे, दर्शिता चास्य कन्यका ॥३३९।। रससेकात् तदौषध्याः, सज्जीचक्रे कनी क्षणात् । बलवाहनभूपेन, हर्षात् तां स विवाहितः ॥३४०॥