________________
[१५३
10
चतुर्थः पल्लवः]
राज्ञे प्रत्युपकारत्वान्मित्रत्वाच्चौषधीद्वयम् । दत्त्वा तयोर्दजगादेति, महिमानं स खेचरः ॥३१६।। सर्पस्यैषा विषहरा, परा च जनमोहिनी । इत्युक्त्वा च नृपं नत्वा, सप्रियः स्वपुरं ययौ ॥३१७।। राजा लात्वौषधीयुग्मं, चचालैकदिशं प्रति । विलोकयन् वन श्रेणी, वेणीवद्वल्लिगुम्फिताम् ॥३१८॥ वृक्षच्छायाऽन्धकारेण, कष्टान्मार्गे व्रजन् नृपः । ददर्श पतितं वृक्षच्छायायां रोगिणं नरम् ॥३१९।। दीनाननं गलन्नेत्रं, पवित्रं धर्मकर्मभिः । सुभावं श्रावकं ज्ञात्वा, वैदेशिकमरक्षकम् ॥३२०।। अयं किलान्तिमावस्थां, सम्प्राप्त इति दृश्यते । विचिन्त्यैवं रत्नपालः, कृपालुस्तमपालयत् ॥३२१॥ युग्मम् । पुण्यबुव्या ततस्तस्य, ददौ चाराधनामिति । क्षमयस्वाङ्गिनः सर्वान् , स्मर पञ्चनमस्कृतिम् ॥३२२॥ अर्हत्सिद्धौ मुनीन् धर्म, चतुरः शरणं श्रय । श्रीसम्यक्त्वं तथा शीलं, भजस्व त्वं सुभावतः ॥३२३॥ कलत्रे पुत्रमित्रेषु , बन्धौ धान्ये धने गृहे । अन्येष्वपि ममत्वं यत् तत् सर्वं साम्प्रतं त्यज ॥३२४॥ देहो गृहं कुटुम्बं श्रीः, सर्वं सुलभमाप्यते । अर्हदुक्तः सुधर्मोऽयं, दुर्लभो भुवि देहिनाम् ॥३२५॥ उपरोधभयक्रोधलोभक्षोभकुतूहलैः ।। यन्मिथ्या गदितं तत्ते, मिथ्याऽस्त्वालोचनादितः ॥३२६॥ जीवितव्यञ्च मृत्युञ्च, द्वयमाराधयन्ति ये ।
त एव पुरुषाः शेषः, पशुरेव जनः पुनः ॥३२७॥ यतः- त्यक्त्वा बन्धुजनादि निर्मलमना गृह्यान्तिमालोचना
मुच्चार्य व्रतमालिकामनशनं चादाय वीतस्पृहः । १. गृह्य इति ल्यबन्तं चिन्त्यम् ।
15
20
25