________________
[धर्मकल्पद्रुमः इत्यादि बहुधा ध्यात्वा, समुत्तस्थौ स सत्त्ववान् । मन्दं मन्दं चचालाग्रे, पर्वतोऽग्रे च वीक्षितः ॥३०३।। आरुरोह गिरेः श्रङ्ग, नरं बद्धं ददर्श च । मृतावस्थागतं दृष्ट्वा , कृपयाऽच्छोटयत् स तम् ॥३०४।। वालिता चेतना वातै, राज्ञा पृष्टश्च मानवः । भद्र ! त्वं केन बद्धोऽत्र ? स्ववृत्तं ब्रूहि मूलतः ॥३०५।। कृत्वाऽञ्जलिं पुमान् प्रोचे, शृणु मे बन्धकारणम् । वैताढ्ये दक्षिणश्रेण्यां, पुरे गगनवल्लभे ॥३०६।। सुगन्धवल्लभो राजा, प्रौढो विद्याधरेश्वरः । हेमाङ्गदोऽहं तत्पुत्रो, विलसामि महासुखम् ॥३०७।। नन्दीश्वरस्य यात्रार्थमन्यदा सह कान्तया । चलितोऽहं रिपुर्कोम्न्यमिलद्विद्याधरः परः ॥३०८।। तदाऽत्र राक्षसीविद्याबलतस्तेन पापिना । बद्धोऽहं मम भार्याञ्चापहृत्य स ययौ रयात् ॥३०९।। अधुना मम भाग्येनागतस्त्वं सत्त्ववान् नरः । अन्यथा मे कुतः स्वामिन् ! जीवितं दृढबन्धनात् ? ॥३१०॥ अत्रान्तरे स विद्याभृत् , तत्पत्नीसंयुतः पुनः । आगतस्तत्र तत्पार्वे, रोषारुण उवाच च ॥३११॥ अरे नरो मया बद्धो, मुक्तोऽसौ केन मानिना ? । अकार्यकारिणस्तस्य, जीवितं न जरत्यहो ॥३१२॥ इत्युक्त्वा धावितः खड्गमाकृष्य नृपतिं प्रति । महाबाहुस्ततो राजा, सम्मुखः सङ्गरेऽभवत् ॥३१३।। खड्गाखड्गि तयोर्युद्धं, कियद्वेलां तदाऽभवत् । लाघवाद्रत्नपालेन, हत्वाऽसौ भुवि पातितः ॥३१४॥ राक्षसीशक्तिविद्या सा, मुक्त्वा राटिं गता क्वचित् । हृष्टो हेमाङ्गदः कान्ताप्राप्त्या च रिपुघातनात् ॥३१५।।
25