________________
चतुर्थः पल्लवः]
[१५१ यतः- उपकृतिरेव खलानां, दोषस्य गरीयसो भवति हेतुः ।
अनुकूलाचरणेन हि, कुप्यन्ति व्याधयोऽत्यर्थम् ॥२९०॥ रत्नपालस्तदाऽरण्ये, निद्राऽवस्वापिनीक्षये । यस्यां सुष्वाप वेलायां, तद्वेलायामजागरीत् ॥२९१।। शय्यास्थः सर्वतो यावद्विलोकयति चक्षुषा । वनमेव महत्तावन्महारौद्रं ददर्श सः ॥२९२।। सिंहव्याघ्रशिवाघूकगृध्रशूकरकेकिनाम् । सारसक्रौञ्चकाकानां, श्रूयन्ते यत्र निःस्वनाः ॥२९३।। मृगसैन्यानि दृश्यन्ते, कपियूथानि कुत्रचित् । सरांसि चोच्चसेतूनि, विविधा यत्र पादपाः ॥२९४।। एवं वीक्ष्य वनं राजा, चकितो हृद्यचिन्तयत् । मन्येऽहं राज्यलोभेन, मोचितो मन्त्रिणा वने ॥२९५।। भक्तं ज्ञात्वा मया तस्मै, राज्यभारः समपितः । विश्वस्तस्य कृतो घातस्तेन धूर्तेन पापिना ॥२९६।। अङ्कमारुह्य सुप्तस्य, शिरश्छेदोऽमुना कृतः । वञ्चयित्वा महाकूपे, प्रज्ञिप्तोऽहं तु मुग्धधीः ॥२९७।। दुर्मन्त्री कर्मचाण्डालः, कृतघ्नः स्वामिघातकृत् । मह्यं दत्त्वेदृशावस्थां, कियद्राज्यं करिष्यति ? ॥२९८।। अथ धीरत्वमाश्रित्य, पुनश्चित्ते व्यचिन्तयत् । किङ्करिष्यत्यसौ रोर:, कर्मणः सर्व्वकारणम् ॥२९९॥ यस्मिन् देशे यदा काले, यन्मुहूर्ते च यद्दिने । हानिर्वृद्धिः सुखं दुःखं, यद्भाव्यं तत्तदा भवेत् ॥३००॥ न मन्त्रा न तपो दानं, न मित्राणि न बान्धवाः ।
शक्नुवन्ति परित्रातुं , नरं कालेन पीडितम् ॥३०१॥ उक्तञ्च- अकारणं सत्त्वमकारणं गुणा, रूपं यशो वीर्यधनान्यकारणम् । 25
अकारणं शीलमकारणं कुलं, पुरा हि चीर्णं नृषु कर्म कारणम् ॥३०२॥