________________
5
10
15
20
25
१०]
खेचरः स्वपुरे प्राप्तो, राज्यं लब्ध्वाऽभवत् सुखी । अस्तङ्गतो रविः सत्या, जातो जयजयारवः ॥ २७९ ॥ सा विख्याता जने जाता, सती शीलेन शीलतः । राजानः किङ्करायन्ते, देवा निर्देशकारिणः ॥२८०॥
यतः
[ धर्मकल्पद्रुमः
इति श्रीसौभाग्यदीपिकाकथा समाप्ता ॥ SS अतस्ते कथ्यते मित्र ! यदि शृङ्गारसुन्दरी । धरिष्यति मनाक् कोपं, नो तदा तव शोभनम् ॥२८१ ॥ महासतीमिमां राज्ञीमावर्ज्जयितुमर्हसि । परस्त्रीगमनेन त्वं क्षितिं यास्यसि सप्तमीम् ॥२८२॥ यतः- व्यसनैकनिवासमन्दिरं, कुलमालिन्यविधानकज्जलम् । जनतावचनीयतास्पदं, परनारीगमनं न शोभनम् ॥२८३॥ स्वाधीनेऽपि कलत्रे, नीचः परदारलम्पटो भवति । सम्पूर्णेऽपि तटाके, काकः कुम्भोदकं पिबति ॥ २८४॥ उक्तम्- लङ्केशोऽपि दशाननोऽपि विजिताशेषत्रिलोकोऽपि सन्, रक्षोलक्षयुतोऽपि सेन्द्रजिदपि व्यापाद्यते रावणः । निःस्वेनैव सुखेन काननजुषा सर्क्षेण मर्त्स्न्येन यत्, रामेणामिततेजसा जनकजाशीलस्य तद्वल्गितम् ॥ २८५ ॥ एवं मित्रमुखात् श्रुत्वा, मुक्त्वा शृङ्गारसुन्दरीम् । महच्छीलं तवेत्युक्त्वा, जयमन्त्री ननाम ताम् ॥२८६॥ विडम्बनावारिधिपारमागता, षष्ठाष्टमाचाम्लतपस्सु तत्परा । सत्कुङ्कुमस्नानविलेपनादिकं, सा वर्ज्जयन्ती यतिनीव संस्थिता ॥२८७॥
अन्येद्युरेकं सुनिमित्तविज्ञं, पप्रच्छ राज्ञी निजभर्तृयोगम् । मिलिष्यतीत्येष जगाद वाणीं, तयाऽऽशया सा हि बभार देहम् ॥२८८॥ जयनामाथ सोऽमात्यो, रत्नपालपदे स्थितः । राज्यङ्करोति पापात्मा, स्वामिनो द्रोहकारकः ॥२८९॥