________________
चतुर्थः पल्लव:]
[१४९ अहं सुतीर्थयात्रार्थं, गच्छन् हेमपुरे गतः । दिनत्रयं बभूवाद्य, यात्यस्तं तत्र नो रविः ॥२६७।। जनास्तत्र प्रकुर्वन्ति, शान्तिकं पौष्टिकं पुनः । तथैव तत्र मार्तण्डो, निश्चलोऽस्ति भयावहः ॥२६८।। श्रुत्वैवञ्चकितो विद्याधरः चित्ते व्यचिन्तयत् ।
नूनं सत्या वचः सत्यं, सर्वनाशे करोमि किम् ? ॥२६९।। यतः- किं मुण्डिते मूर्ध्नि, मुहूर्त्तपृच्छा, गतोदके किं खलु सेतुबन्धः ।
घ्राणे विशीर्णे द्विदलं त्यजेत किं, किं पृच्छ्यते वेश्म निपीय नीरम् ? ॥२७०॥ तथापि तत्र गत्वाऽहं, नत्वा सती स्वदूषणम् । क्षमयामि महाशापादात्मानं मोचयामि च ॥२७१।। ततो गत्वा सतीं नत्वा, क्षमयित्वा च सोऽब्रवीत् ।
शापस्यानुग्रहं मातः !, कुरु सन्तो न रोषिणः ॥२७२।। यतः- पीड्यमानोऽपि माधुर्यमुगिरत्येव सज्जनः ।
छिन्नो निपीलितः क्वाथीकृतोऽपीक्षुतरुर्यथा ॥२७३॥ मेलयित्वा ततः सर्वान् , लोकांस्तत्पुरवासिनः । तेषां पुरो जगादेति, भो भोः ! शृणुत मद्वचः ॥२७४।। वचसापि मया चक्रे, पापं तत्फलितं क्षणात् । मम भस्मीकृतं सर्वं, अनया स्तम्भितो रविः ॥२७५।। सौभाग्यदीपिकावृत्तं, प्रोक्त्वा(च्या)ऽसौ तत्पदेऽपतत् । शापमोक्षस्तया चक्रे, भ्रातर्याहि निजं पुरम् ॥२७६।। तत्र राज्यञ्च लक्ष्मीञ्च, प्राप्स्यसि त्वं मदाशिषा ।
विनयात् तव तुष्टाऽहं, 'विनयो हि महागुणः' ॥२७७।। यतः- मूलं धर्मद्रुमस्य द्युपतिनरपतिश्रीलतामूलकन्दः,
सौन्दर्याह्वानविद्या निखिलगुणनिधिर्वस्यताचूर्णयोगः । सिद्धाज्ञानमन्त्रयन्त्राधिगममणिमहारोहणाद्रिः समस्तानर्थप्रत्यर्थितन्त्रं त्रिजगति विनयः किं न किं साधु धत्ते ? ॥२७८॥
25