________________
5
10
151
20
25
४]
मनसाऽपि वचस्तस्य, न मेने सा मनस्विनी । न ददौ चोत्तरं किञ्चित्, पुनरूचे स पापधीः ॥ २५४॥ अहं कामभुजङ्गेन, दष्टो दुष्टेन मर्मणि । वचोऽमृतेन मां स्वस्थं कुरु त्वं विषनाशनात् ॥२५५॥
पञ्चबाणप्रहारस्य, व्यथा जाता घना मम । संश्लेषं तव देहस्य, करिष्येऽहं बलादपि ॥ २५६ ॥
[ धर्मकल्पद्रुमः
यावदुक्त्वेति विद्याभृत्, शीलभङ्गङ्करोत्यसौ । तावत् तया बभाषेऽथ, रे पापिन् ! शृणु मद्वचः ॥२५७|| सत्याः शीलव्रतस्य त्वं, भङ्गङ्कर्तुं समुद्यतः ।
तेन पापेन शापेन, क्षयं यास्यसि तत्क्षणात् ॥२५८॥ तव राज्यञ्च राष्ट्रञ्च, पुत्रप्रियतमायुतम् । प्रयातु प्रलयं सर्व्वं मम शापेन वेगतः ॥ २५९॥
इति तस्या वचः श्रुत्वा, भूयो विद्याधरोऽब्रवीत् । दिवसोऽस्त्यधुना मुग्धे !, समेष्यामि पुनर्निशि ॥ २६०॥ तदाऽहं त्वां हरिष्यामि, यास्यामि निजपत्तने ।
त्वया सह रमिष्ये च तदा त्वं किङ्करिष्यसि ? ॥२६१ ॥ ततः सोहगदेव्याह, मदीयवचनाद्रविः ।
नास्तं यास्यति तत् श्रुत्वा गतो विद्याधरः पुरे ॥२६२॥ तावत् तत्र गृहे तस्याकस्मादासीत् प्रदीपनम् । जज्वाल क्षणमात्रेण, कुटुम्बसहितं गृहम् ॥ २६३॥ विनष्टास्तत्क्षणादेव, गजाश्वरथपत्तयः । सम्भूय वैरिसैन्येन, देशोऽस्य जगृहेऽखिलः ॥ २६४॥ जाते तत्रैवमुत्पाते, स विलक्षो व्यचिन्तयत् । अहो किमिति सञ्जातं अभाग्यं वर्तते मम ॥ २६५ ॥ स एकाक्युपविष्टोऽस्ति तावत् तत्रैकखेचरः । आगत्येत्यवदन्मित्राश्चर्यं दृष्टं मया महत् ॥ २६६॥