________________
चतुर्थः पल्लवः]
[१४७ तथापि सा तद्वचनं न मेने, प्राणाधिकं शीलधनं त्वरक्षत् । वातैर्घनैः किं कनकादिशृङ्ग, तुझं पतत्यत्र कदा धरित्र्याम् ॥२४०॥ अन्यदा तस्य दुष्टस्य, कोऽपि दक्षोऽवदत् सुहृत् । हे मित्र ! ते हितं वच्मि, किं हंसि त्वं सतीमिमाम् ? ॥२४१॥ अस्या रोषानलाद्रे रे, त्वं भविष्यसि भस्मसात् । मुनीनाञ्चापि देवानां, सतीशापो हि दुस्सहः ॥२४२॥ सतीशीलस्य माहात्म्यात् , ज्वलनो जलतां व्रजेत् । सर्पः सुपुष्पमालाभो, विषं भवति चामृतम् ॥२४३॥ सिंहव्याघ्रपिशाचाश्च, यक्षव्यन्तरराक्षसाः । नश्यन्त्येव सतीनाम्ना, तद्रेखां लश्यन्ति न ॥२४४॥ सतीशीलप्रभावं तं, शृणु त्वं सावधानतः ।
सत्याः शापाद्विपन्नं हि, विद्याधरकुटुम्बकम् ॥२४५।। तथा च- पुरा रत्नपुरे राजा, रामो राज्यमपालयत् ।
धनदत्तोऽभवत् तत्र, श्रेष्ठीशो राजमानित ॥२४६।। धनश्रीरिति तद्भार्या, लावण्यजलकूपिका । सती शीलरता नित्यं, पतिभक्ता प्रियंवदा ॥२४७।। तया समं सदा श्रेष्ठी, बुभोज विविधं सुखम् । तयोर्देवीसमा जाता, सुता सौभाग्यदीपिका ॥२४८।। लालिता पालिताऽत्यन्तं, पाठिता भारतीव या । सम्प्राप्तयौवना साथ, सञ्जाता जनमोहिनी ॥२४९॥ पुरे कनकसंज्ञेऽभूत् तदा श्रेष्ठी धनावहः । नराणां गुणिनां मुख्यस्तत्पुत्रो नरकुञ्जरः ॥२५०॥ सोऽभूत् सर्वकलायुक्तो, विरक्तः परदारतः । तस्मै वराय सा दत्ता, धनदत्तेन नन्दिनी ॥२५१॥ गता श्वशुरगेहे सा, गवाक्षे संस्थिताऽन्यदा । विद्याधरेण केनापि, दृष्टा व्योमनि गच्छता ॥२५२।। तत्राययौ स रागान्धश्चाटुवाक्यैर्जजल्प च । स्वरूपं बहुभङ्गीभिदिव्यशक्त्या च दर्शितम् ॥२५३।।