________________
5
10
151
20
25
१४]
ग्रासस्य वृद्धिकरणात्, स्वीकृता राजसेवकाः । स्वामिद्रोहो धृतस्तेन, पापिना राज्यलोभतः ॥ २२८॥ निद्राञ्च स्वापिनीं दत्त्वा, पल्यङ्कस्थो नृपो निशि । आनीतो मन्त्रिणाऽरण्ये, यावन्मारयते च सः ॥२२९॥
तावत्तस्य नरेन्द्रस्य, दृढायुरनुभावतः ।
व्योम्नि वाणी समुत्पन्ना, मा मा भो भो इति स्फुटा ॥२३०॥ नष्टो वाणीभयान्मन्त्री, सेवकाश्च दिशो दिशम् । मन्त्रिणाऽधिष्ठितं राज्यमन्तःपुरसमन्वितम् ॥२३१॥ शृङ्गारसुन्दरीमेकां, विना राज्ञ्योऽपरा बलात् । सर्व्वा बिडम्बितास्तेन, कामान्धेन कुकर्म्मणा ॥ २३२ ॥ शृङ्गारसुन्दरी बाढं, शीलव्रतपरायणा । बहुधाऽभ्यर्थ्यमानापि, न मेने तस्य तद्वचः ॥ २३३॥ कामक्रोधवशात् तस्या, अङ्गे पञ्च शतान्यथ । कशाघातान् स दुष्टात्मा, मोचयामास सर्व्वदा ||२३४||
[ धर्मकल्पद्रुमः
तस्या रूपे मोहितस्य, कामिनस्तस्य नो दया ।
न लज्जा न च सौन्दर्य, न दाक्षिण्यं न धर्म्मधीः ॥२३५॥
यतः- कामी न लज्जति, न पश्यति नो शृणोति,
नोऽपेक्षते गुरुजनं स्वजनं परं वा । गच्छाग्रतः कमलपत्रविशालनेत्रे !, विन्ध्याटवीप्रतिदिशो मम राजमार्गं ॥२३६॥
सलज्जः सदयस्तावत् सुविद्यः सुगुणः सुधीः । यावत् कामवशो नाङ्गी, अहो कामो जगज्जयी ॥ २३७॥
विविधा वेदनास्तेनाधमेनास्याः कृता भृशम् ।
न तु द्विधा कृतं चित्तं, स्थिरीभूतं निजं व्रते ॥ २३८॥
सन्दंशेर्मांसखण्डानि, त्रोटितानि दुरात्मना । मासमेकं महाकष्टे, सती सैवं कदर्थिता ॥ २३९ ॥