________________
10
चतुर्थः पल्लवः]
[१४५ सुभोज्यं गीतकाव्यञ्च, कथाकाञ्चनकामिनी । उत्तमानां विशेषेण, साधारणसुखानि षट् ॥२१६॥ विषयार्णावमग्नोऽसौ, किञ्चित् जानाति नापरम् । निश्चिन्त एव नारीषु , गीतनृत्यादितत्परः ॥२१७।। स्थापितो राज्यचिन्तायां, सचिवो जयसञ्जकः । तस्मिन् भारं समारोप्य, तस्थौ शक्र इव स्वयम् ॥२१८।। सार्धं शृङ्गारसुन्दऱ्या, भुञ्जन् वैषयिकं सुखम् । वासरान् गमयामास, स दोगुन्द इवामरः ॥२१९।। अपत्यमङ्गशुश्रूषा, भोगः स्वजनगौरवम् । गृहकर्मनियोगश्च, स्त्रीवल्ल्याः फलपञ्चकम् ॥२२०॥ गुणरत्नाकरस्यापि, भृशं विषयसेवनम् ।
रत्नपालस्य दोषोऽभूत् , 'निर्मलः को हि सर्वथा ?' ॥२२१।। यतः- चन्द्रे लाञ्छनता हिमं हिमगिरौ सिन्धौ जले क्षारता,
अर्कस्तीक्ष्णकरः कटुमलयजः पङ्कं जले विद्यते । नो दुग्धा करिणी तथाऽहिलतिका पुष्पैः फलैर्वर्जिता, दुर्दैवेन विडम्बितं जगदिदं रत्नं सदोषीकृतम् ॥२२२॥ समता सर्वकार्येषु , संसारे हि शुभावहा । सभ्यैरिति निषिद्धोऽपि, नात्यजद् व्यसनं नृपः ॥२२३॥ पुण्यपापानुभावेन, सुखदुःखस्य संभवः । कानुसारिणी बुद्धिः, सिद्धिर्भवति तादृशी ॥२२४॥ राज्ये लुब्धः पुरा मन्त्री, किं पुनस्तत्समर्पणे । सत्य आभाणको जातो, बिडाले दुग्धरक्षणम् ॥२२५॥ अन्यदा सचिवो लोलो, राज्ञीरूपविमोहितः । न विवेद क्षुधां तृष्णां, कामार्तः प्राप नो रतिम् ॥२२६।। एकदा तस्य भाग्येन, मिलितः सिद्धपूरुषः । तेन दत्ता वरा विद्या, अवस्वापनिकाभिधा ॥२२७||
15