________________
10
[धर्मकल्पद्रुमः वीतरागं हृदि ध्यायन् , वीतरागो यथा भवेत् । मुक्त्वाऽखिलमपध्यानं, भ्रामरं ध्यानमाश्रयेत् ॥२०४॥ स्थाने याने जनेऽरण्ये, सुखे दुःखे तथा मनः । अभ्यासं (अभ्यसेत् ) वीतरागत्वे, लयलीनं यथा भवेत् ॥२०५॥ गन्धः पुष्पे घृतं दुग्धे, तेजः काष्ठे यथा स्थितम् । ज्ञानं जीवे तथा किन्तु , व्यक्तीस्यात् परिकर्मणा ॥२०६॥ अघदवौघघनाघनमण्डली, सुकृतसन्ततिकल्पलतावनी । विशदधर्मजनन्यमितस्फुरत्गुणगणा करुणा जयताच्चिरम् ॥२०७॥ देशनान्ते नृपोऽपृच्छत् सत्वरं भगवन् ! वद । विद्यते कियदायुर्मे, तदहं श्रोतुमुत्सुकः ॥२०८॥ गुरुरूचे महाराज ! कार्यं साधय सत्वरम् । मासमेकं भवदायुश्चिरायुर्नास्ति ते नृप ! ॥२०९।। एवं मुनिमुखाच्छ्रुत्वा, नत्वा गत्वा च वेश्मनि ।
राज्ये संस्थाप्य पुत्रञ्च, शिक्षामित्थं ददौ नृपः ॥२१०॥ यतः- द्यूतादिव्यसनं खलाभिगमनं विश्वस्तविप्लावनम् ,
वेषाडम्बरमण्डनं कलहनं शक्तैः श्रिते कोपनम् । अन्याये कथनं कृतापलपनं दोषानृतख्यापनम् , स्वश्लाघाघनमन्यदारगमनं त्याज्यं त्वया निन्दनम् ॥२११॥ शिक्षामुक्त्वेति भूमीन्द्रो, दत्त्वा दानं यथाविधि । सचिवादीननुज्ञाप्य, ततो जग्राह संयमम् ॥२१२॥ सुचिरं तीव्रचारित्रं, स प्रपाल्य शिवं ययौ । रत्नपालस्ततो राजा, प्रजाः सुखमपालयत् ॥२१३।। शृङ्गारसुन्दरीमुख्यास्तस्य राज्यः सहस्रशः ।
अजायन्त समन्ताभिर्भोगान् बुभोज सोऽष्टधा ॥२१४॥ यतः- सुगन्धं वनिता वस्त्रं गीतं ताम्बूलभोजनम् ।
वाहन मन्दिरं शय्या, अष्टौ भोगाः प्रकीर्तिताः ॥२१५॥
15
20
25