________________
40
चतुर्थः पल्लवः]
[१४३ तृतीयोऽपि तदङ्गान्यादाय तीर्थं प्रतस्थिवान् । तुर्यस्तु तस्याः शेषाङ्गोपरि स्थण्डिलकं व्यधात् ॥१९१॥ याचित्वा च पुरे भिक्षां, मुक्त्वा तत्रान्नपिण्डकम् । स्वयं भुङ्क्ते प्रियामोहात्तत्रास्ते च दिवानिशम् ॥१९२।। कियत्यपि गते काले, देशान्तरगतो वरः । क्वापि सञ्जीविनी विद्या, प्राप्य तत्राययौ मुदा ॥१९३।। आकृष्य स्थण्डिलात् शेषास्थीनि विद्यानुभावतः ।। चक्रे पुनर्नवां कन्यां, नव्यः सहमृतोऽप्यभूत् ॥१९४॥ तीर्थान्तरगतोऽप्यागात् , तदानीं तत्र दैवतः । कन्यार्थं विवदन्ते स्म, चत्वारोऽपि तथैव ते ॥१९५।। मिलिताः स्वजनाः सर्वे, सपौरा राजपूरुषाः । कन्याविवादः किं त्वेषां, न केनापि निवर्तितः ॥१९६।। तदैकप्रवया ज्ञाततत्स्वरूपो महामतिः । तेषां वचनमादाय, स्फुटं निर्णीतवानिदम् ॥१९७।। तीर्थेऽस्थिन्यासकृत् पुत्रः, पुनर्जन्मप्रदः पिता । सहोत्पन्नः पुनर्घाता, स भर्ता यस्तु भक्तदः ॥१९८॥ तदस्यैव प्रियाऽस्त्वेषा, यः सदा भोजनं ददौ । लोकेऽपि श्रूयते भर्ता भार्याभरणपोषकृत् ॥१९९।। इत्युक्ते मुक्तवैरास्ते, सर्वे स्वस्वास्पदं ययुः । परिणीता त सा तर्यवरेण जनसम्मतम् ॥२००। यथाऽसौ नाभवद्विद्यातीर्थकष्टकृतामपि । भक्तदानं विना तद्वद्विना साम्यं न निर्वृतिः ॥२०१॥ तत्त्वज्ञानं विना विद्या, तपस्या शमवर्जिता । तीर्थयात्रा मनःस्थैर्यवन्ध्या वन्ध्येव कामिनी ॥२०२॥ प्रणिहन्ति क्षणार्द्धन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥२०३॥ [यो.शा./४/५१]
25