________________
७]
5
[धर्मकल्पद्रुमः राज्ञाऽथ तस्य सार्थाय, दत्त्वा दानं यथोचितम् । सर्वं सन्तोष्य जामाता, पुरे सम्प्रेषितो निजे ॥१५५।। राजा कति प्रयाणानि, जामात्रा सार्धमागतः ।
वलमानेन तातेन, शिक्षेति दुहितुर्ददे ॥१५६।। यतः- निर्व्याजा दयिते ननान्दृषु नता श्वश्रूषु भक्ता भवेः,
स्निग्धा बन्धुषु वत्सला परिजने स्मेरा सपत्नीष्वपि । पत्युम्मित्रजने विनर्मवचना रुष्टा च तद्वेषिषु , स्त्रीणां संवनं तदद्भुतमिदं वीतौषधं भर्तृषु ॥१५७॥ हे वत्से ! निजनाथस्य, न मोक्तव्यं पदाम्बुजम् । इष्टं दैवतवद् ध्येयं, न धेयं दुर्मनः कदा ॥१५८॥ चन्द्रयुक्ता निशा भाति, प्रिया पत्यनुगामिनी । पतिचित्तानुवृत्त्यैव, स्थातव्यं हि त्वया सुते ! ॥१५९॥ मितं ददाति हि पिता, मितं भ्राता मितं सुतः । अमितस्य हि दातारं, भर्तारं को न पूजयेत् ? ॥१६०॥ इत्यादिविविधां शिक्षा, प्रदत्त्वा (प्रदाय) वलितो नृपः । कुमारः कान्तया युक्तः, सम्प्राप्तो निजपत्तनम् ॥१६१॥ पुरप्रवेशोऽथ वरस्य तस्य, पृथ्वीभुजा कारित उत्सवेन । वध्वा समं मङ्गलभाग्वरोऽसौ, ननाम भक्त्या पितृमातृपादान् ॥१६२।। श्वश्रूपादयुगं प्रणम्य विधिना तस्थौ वधूः प्राङ्गणे, तस्या रूपविलोकनाय वनितास्तत्रागतास्तावता । दृष्ट्वा तां जगदुर्मिथः सुरवधूः किं वाप्यसौ खेचरी, किं वा नागकुमारिकाऽथ कमला किं किन्नरी पार्वती ॥१६३।। नैषा सुरी न नागश्री:, किन्नरी खेचरी शिवा । रत्नपालस्य योग्या च, भोग्यैषा वरकन्यका ॥१६४।। वर्षन्तीव सुधारसं मधुरया वाचा प्रसन्नानना, नम्रा सद्विनयेन शीलसरला सौभाग्यलावण्यभूः ।
15
20
25