________________
[१३९
चतुर्थः पल्लवः]
विधिरूचे महाबुद्धे !, कार्यं कथय मेऽपरम् । तत् करोमि यथा शीघ्रमस्मात् कष्टाद्विमुञ्च माम् ॥१४२॥ मन्त्र्यूचे भूपपुत्राणां, तेषां वेगेन हे विधे ! । ददस्व पैतृकं राज्यं, पश्चात् त्वं स्वेच्छया चर ॥१४३।। भ्रातरौ भगिनीयुक्तावानीय मन्त्रिणेऽर्पितौ । मन्त्रिणा विधियोगेनारयो निष्कासिताः पुरात् ॥१४४॥ राज्ञो ज्येष्ठसुतो राज्ये, स्थापितो मन्त्रिणा ततः ।। उक्त्वैवं लोकिकी वार्ता, प्रोचे शृङ्गारसुन्दरी ॥१४५।। नष्टं राज्यं यथा बुद्ध्या, वालितं तेन मन्त्रिणा । तथा त्वं कुरु मन्त्रीश !, प्रपञ्चं शत्रुनिग्रहे ॥१४६।। गुप्तं कोऽपि न वेत्तीति, विवरं सचिवस्तथा । अकारयद् बहिर्वप्रात् , तस्योपरि चिता कृता ॥१४७॥ स्थापिता तत्र सा कन्या, बहुचेटीभिरावृता । आकारिता नृपाः सर्वे, मन्त्रिणा चेति जल्पितम् ॥१४८।। भो भूपा ! यस्य वाञ्छा स्यात् कन्यायाः स हुताशने । प्रविशत्वनया सार्धं, तस्मै कन्याऽथ दास्यते ॥१४९।। अधोमुखा नृपा जाताः, सर्वेषां पश्यतां पुनः । रत्नपालः समं नार्या, चितामध्याद्विले ययौ ॥१५०॥ चेटीभिर्चालितो वह्निद्वितीयेऽह्नि सकन्यकः । कुमारः प्रकटो जातः, महत्सत्त्वं जना विदुः ॥१५१।। आगता ये नृपाः सर्वे, स्फालभ्रष्टप्लवङ्गवत् । हताशाः श्यामवक्रास्ते, गता निजनिजं पुरम् ॥१५२॥ ततः शुभे दिने भूपो, विवाहं महदुत्सवात् । तयोश्चक्रे च राज्याधु, दत्तवान् करमोचने ॥१५३।। दशाहस्थितितस्तत्र, स्थित्वा दश दिनान् वरः । भूपं विज्ञपयामासानुज्ञां देहि चलाम्यहम् ॥१५४॥