________________
[धर्मकल्पद्रुमः तेनोक्तमेकजीवेन, कष्टेनाजीविका भवेत् । मन्त्री बुद्धिबलेनोचे, शृणु भो ! मे हितं वचः ॥१२९।। भद्रजाति विना जीवो, न हन्तव्यस्त्वया यतः । महामुक्ताफलप्राप्तिर्गजकुम्भस्थलाद् भवेत् ॥१३०॥ ललाटलिखितं जीवमेकं ते दास्यते विधिः । एवमुक्त्वा द्वितीयस्य, शोधनार्थं गतः सुधीः ॥१३१।। चतुष्पथे पुरे कस्मिन् , तृणभारयुतः स्थितः । दृष्टोऽसौ मन्त्रिणा ज्ञात्वा, तत्स्वरूपञ्च भाषितम् ॥१३२॥ प्रत्यहं पृष्ठकं वत्स !, विक्रीणाहि पुनर्विधिः । विक्रीते लिखितं भाले, वृषभं ते प्रदास्यति ॥१३३।। मन्त्री तु राजपुत्र्यर्थे, भ्रमन् कस्मिन् पुरे ययौ । वेश्याभिर्वेष्टिता दृष्टा, तेन सा तत्र दैवतः ॥१३४।। नेत्रे नीरेण सम्पूर्य, मन्त्र्यूचे बालिकां प्रति । वत्स ! का तव चेष्टैषा ? सा प्रोचे कर्मयोगतः ॥१३५।। पुनरेकः पुमानेति, स्वल्पोत्पत्तिस्ततो मम । मन्त्री जगाद हे वत्से !, ममैकं वचनं शृणु ॥१३६।। त्वद्गृहे यः पुमानेति, दीनाराणां शतं त्वया । तस्मात् याच्यं सदा दैववशादेष्यति चेदृशः ॥१३७।। शिक्षां दत्त्वा त्रयाणां स, सचिवोऽगाद् गृहे निजे । अन्यदा निशि सुप्तोऽस्ति, तदा स विधिरागतः ॥१३८॥ धीसखं प्रति स प्राह, भोस्त्वं निश्चिन्ततां गतः । मह्यं झगटकं दत्त्वा, दण्डैस्तूरो हि वाद्यते ॥१३९।। मुञ्च मां बन्धनान्मित्र !, प्रदीयन्ते कुतो मया । हस्तिगोशतदीनारदायकाः सर्वदा यतः ॥१४०॥ मन्त्री जगाद हे देव !, जनभाषा कृता मया । वक्रकाष्ठे वक्रवेधो, दीयते तत् तवोचितम् ॥१४१॥
25