________________
चतुर्थः पल्लवः ]
नरवाहनराजाऽभूत् पुरे क्षितिप्रतिष्ठिते ।
मन्त्री च ज्ञानगर्भोऽस्य, बुद्धया देवगुरूपमः ॥ ११६॥ तस्य राज्ञोऽन्यदा गेहे, नन्दनप्रसवोऽभवत् । प्रारब्धोऽस्य यदा षष्ठीरात्रिजागरणोत्सवः ॥११७॥ सचिवेन तदाऽचिन्ति, विधिचेष्टा विलोक्यते । किङ्करोति लिखेत् किं वा, ध्यात्वैवं गुप्तवृत्तितः ॥११८॥ मध्यरात्रे स्थितो दीपच्छायायां स सुधीर्यदा ।
तावदागत्य दैवेन, लिखित्वा प्रोक्तमीदृशम् ॥ ११९॥ युग्मम् | आखेटक्रिययैवासौ, प्राणवृत्तिर्विधास्यति । चटिष्यत्येकजीवोऽस्य, सदाऽन्यो न चटिष्यति ॥ १२०॥ श्रुत्वैवं शङ्कितोऽमात्यश्चेतसीति व्यचिन्तयत् । अहो भूपसुतस्यापि किमिदं कर्म्मचेष्टितम् ? ॥१२१॥ द्वितीयोऽथ सुतो राज्ञो, जज्ञे तस्यापि पूर्ववत् । षष्ठीरात्रौ प्रधानेन, विधिनोक्तमिति श्रुतम् ॥ १२२॥ पृष्ठवाह्यगवैकेन, पुत्रोऽसौ घासविक्रयी । भविष्यति सदा नान्यं, बलीवर्द्दमवाप्स्यति ॥ १२३ ॥ तृतीया तु सुता जाता, तद्भाले चैवमक्षराः । विधिना लिखिता एषा, नूनं वेश्या भविष्यति ॥ १२४ ॥ एकमेव नरं दैवादवाप्स्यति दिनं प्रति । त्रयाणामिति दुष्कर्म्म, मन्त्री विज्ञाय दुःख्यभूत् ॥१२५॥ कियत्यपि गते काले, हत्वा तं गोत्रिभिर्नृपम् । तद्राज्यं जगृहे नष्टाः, पुत्रीपुत्रादयः पुरात् ॥१२६॥ ते त्रयोऽपि पृथक् कर्म्म, कुर्व्वन्ति विधिनोदितम् । सचिवो ज्ञातसम्बन्धो, वीक्षणार्थं विनिर्गतः ॥ १२७॥
भ्रमन्नेकपुरेऽपश्यत्तमाखेटकरं नरम् । उपलक्ष्याब्रवीन्मन्त्री, किमिदं त्वङ्करोषि भोः ! ॥१२८॥
[ १३७
5
10
15
20
25