________________
[धर्मकल्पद्रुमः सम्भूय रिपवः सर्वे, समुदायेन लक्षशः । एकेन रत्नपालेन, सार्धं युद्धाय चागताः ॥१०३।। सज्जीबभूव युद्धाय, रत्नपालोऽपि विक्रमी । तदैवं वीरसेनोऽपि, चिन्तयामास चेतसि ॥१०४।। अहो कथमनर्थोऽयं, संजातः शुभवासरे ? ।
भोजनावसरे युद्धं, है अकाण्डेऽद्य जायते ॥१०५।। यतः- पुष्पैरपि न योद्धव्यं, किं पुनर्निशितायुधैः ।
युद्धे विजयसन्देहः, प्रधानपुरुषक्षयः ॥१०६॥ रौद्रे प्रवर्तिते युद्धे, भूभुजा सन्धिपालकान् । सम्प्रेष्य वारिता युद्धात् , न्यवर्त्तन्त परं न ते ॥१०७।। तदा शृङ्गारसुन्दा , चिन्तितं चेति चेतसि । मदर्थे जायते युद्धमभूवं कालरात्र्यहम् ॥१०८।। विषवल्लीसमा जाता, कुलेऽहं कुलनाशनी । पितृमातृमतिर्मग्ना, भुग्ना भाग्यलता मम ॥१०९॥ हिंसादिकं महापापं, सङ्ग्रामाज्जायते मम । चन्द्रवल्लाञ्छनं मेऽद्य, सञ्जातं कर्मदोषतः ॥११०॥ अहो मे निर्मला जातिः, सञ्जाता समलाऽधुना । निष्कलङ्गं कुलञ्चाभूत् कलङ्ककलितं किल ॥१११॥ इति चिन्तापरा सा च, यतिवन्मौनमाश्रिता । उपायं चिन्तयामास, सर्वेषां क्षेमहेतवे ॥११२॥ तदा तत्रागतो मन्त्री, सुबुद्धिस्तस्य कन्यया । कथितं कोऽप्युपायोऽस्ति ?, वञ्च्यन्ते यन्नृपा अमी ॥११३।। उपायेन प्रकर्तव्यं, न शक्यं यत् पराक्रमैः । समीहितानि सिध्यन्ति, जने हास्यं न जायते ॥११४॥ यथा पुराऽपि केनापि, मन्त्रिणा बुद्धियोगतः । निजभर्तुर्गतं राज्यं, वालितं तत्क्षणादपि ॥११५॥
15
25