________________
चतुर्थः पल्लवः]
[१३५ काव्यम्- कुलं च शीलं च सनाथता च, वित्तं च विद्या च वपुर्वयश्च ।
एतान् गुणान् सप्त निरीक्ष्य देया, ततः परं भाग्यवशा च कन्या ॥१०॥ अनुरूपो वरः पुत्र्याः, को भविष्यति सद्गुणैः ? । स्वयंवरेऽथवा कन्या, वृणुतां स्वेच्छया वरम् ॥९१॥ ध्यात्वेति कारितो राज्ञा, स्वयंवरणमण्डपः । दूतैराकारिताः सर्वे, समाजग्मुर्महीभुजः ॥९२।। समित्रो रत्नपालोऽपि, पित्रादेशात् समागतः । महान्तो मिलितास्तत्र, मण्डलीकाः सहस्रशः ॥९३॥ रम्येषु हर्येषु निवेशनेषु , प्रियोक्तिदानादरनम्रताद्यैः । शय्यासनैस्तत्र नरेन्द्रचक्रमुपाचरच्चारु स भूमिनाथः ॥९४।। हिमालयकृतस्पर्धास्तत्र पक्वान्नराशयः । वैताढ्यशृङ्गवत्तुङ्गाः, सन्ति शाल्यादिसञ्चयाः ॥९५।। अथ लग्नदिने प्राप्ते, सर्वाभरणभूषिता । आगता मण्डपे तत्र, कन्या शृङ्गारसुन्दरी ॥९६।। रूपेण विजिता रम्भा, शास्त्रेण च सरस्वती । गुणेन जितगौरी च लक्ष्मीर्लक्षणलक्षिता ॥९७।। एवंविधगुणैर्युक्ता, साक्षान्मोहनवल्लिका । वरमालां करे कृत्वा, स्थिता साऽत्र स्वयंवरे ॥९८।। आगता ये नृपास्तत्र, प्रतिहार्या निवेदिताः । पूर्वप्रेमानुभावेन, रत्नपालो वरो वृतः ॥९९॥ ततोऽन्ये क्षत्रियाः क्रुद्धाः, सङ्ग्रामाय समुत्थिताः ।
त्रिंशदक्षोहिणीसङ्ख्या, वाहिन्यो मिलितास्तदा ॥१००॥ यतः- दश नागसहस्राणि, नागे नागे शतं रथम् ।
रथे रथे शतं अश्वं, अश्वे अश्वे शतं नरम् ॥१०१॥ काव्यम्- अयुतं गजानां प्रयुतं रथानां, नवलक्षयोधा दशलक्षवाजिनाम् । 25
उदारभृत्याः षट्त्रिंशलक्षाः, अक्षौहिणीसैन्यं मुनयो वदन्ति ॥१०२॥
15