________________
[धर्मकल्पद्रुमः सुस्वराऽलोभिनी पीनस्तनी वृत्तानना पुनः । प्रेमवती स्फीतिमती, पतिभक्ता विनीतका ॥७९॥ सत्यवाक् सुव्रतोदारा, संसन्तोषा च धाम्मिकी ।।
दोषाच्छादनका क्षान्तियुक्ता स्त्रियो गुणा अमी ॥४०॥ 5 महाकाव्यम्-शुष्काङ्गी कूपगण्डा प्रविरलदशना श्यामताल्वोष्ठजिह्वा,
पिङ्गाक्षी वक्रनाशा खरपरुषनखा वामना चातिदीर्घा । श्यामाङ्गी सन्नतभूः कुचयुगविषमा रोमजङ्घाऽतिकेशी, सा नारी वर्जनीया धनसुतरहिता षोडशा लक्षणाढ्या ॥८१॥ पीनोरू: पीनगण्डा लघसमदशना पद्मनेत्रान्तरक्ता, बिम्बोष्ठी तुङ्गनाशा गजगतिगमना दक्षिणावर्त्तनाभिः । स्निग्धाङ्गी वृत्तवक्त्रा पृथुमृदुजघना सुस्वरा चारुकेशा, भर्ता तस्याः क्षितीशो भवति च सुभगा पुत्रमाता च नारी ॥८२॥ तां प्राप्तयौवनां दृष्ट्वा, चिन्तां भूपोऽकरोदिति ।
कस्मिन् स्थाने कुले कस्मिन् , कस्मै देया सुता मम ? ॥८३।। 15 यतः- जातेति शोकं महतीति चिन्तां, करोति या कस्य वरस्य देया ।
दत्ता सुखं प्राप्स्यति वा न वेति, कन्यापितृत्वं खलु नाम कष्टम् ॥८४॥ मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम् ।
त्रिगुणाधिकवर्षाणां, तेषां देया न कन्यका ॥८५॥ यतः- अत्यद्भुतधनाढ्यानामतिशान्तातिरोषिणाम् ।
सरोगविकलानाञ्च, तेषां देया न कन्यका ॥८६॥ यतः- कुलजातिविहीनानां, पितृमातृवियोगिनाम् ।
गेहिनां पुत्रयुक्तानां, तेषां देया न कन्यका ॥८७॥ कुशीलचौर्ययुक्तानां, मद्यपद्यूतकारिणाम् ।
वैदेशिकस्वगोत्राणां, तेषां देया न कन्यका ॥८८॥ 25
खञ्जान्धजडचित्तानां, सदैवोत्पन्नभक्षिणाम् । बहवैरापवादानां, तेषां देया न कन्यका ॥८९॥
20