________________
चतुर्थः पल्लवः ]
यतः - यद्यपि भवति विरूपो, वस्त्रालङ्कारवेषपरिहीणः । सज्जनसभाप्रविष्टः, शोभामनुभवति सद्विद्यः ॥६७॥
[ १३३
काव्यम् - सम्पूर्णकुम्भो न करोति शब्दमर्धो घटो घोषमुपैति यस्मात् । विद्यावतां नो भवतीह गर्थ्यो, विद्याविहीना बहुभाषकाः स्युः ॥६८॥ शास्त्रं प्रज्ञावशात्तेनाधीतं स्तोकदिनैर्घनम् । षट्त्रिंशदायुधाभ्यासः, कृतश्चानेन लीलया ॥६९॥ रूपसौभाग्यसम्पन्नो, द्विसप्ततिकलानिधिः । युवराजपदे पित्रा, स्थापितो रत्नपालकः ॥७०॥ मित्रैः परिवृतो नित्यं, विविधक्रीडया स च । शस्त्रशास्त्रविनोदेन, गमयामास वासरान् ॥७१॥ इतश्च कन्यकुब्जाख्ये, देशे हंसपुरे पुरे । वीरसेनो नृपो वीरो, महासेन इवाभवत् ॥७२॥ प्रिया वीरमती तस्य, शीलसौभाग्यशालिनी । शृङ्गारसुन्दरी पुत्री, तयोः सुगुणमण्डिता ॥७३॥ यतः- वक्त्रं चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचने,
वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः । वक्षोजा इभकुम्भविभ्रमहरौ गुर्व्वी नितम्बस्थली, वाचां हारि च मार्द्दवं युवतिषु स्वाभाविकं मण्डनम् ॥७४॥ चतुष्पष्टिकलापात्रं, रूपयौवनमिश्रिता ।
तातेन पाठिता साऽभूद्वितीया भारती भुवि ॥७५॥ सद्वृत्ता शीलसंयुक्ता, लावण्यरसवाहिनी । किं बहुनाऽभवद्भूयो, द्वात्रिंशत्स्त्रीगुणान्विता ॥७६॥ यथा - सुरूपा सुभगा शान्ता, सुवेषा हि सुनेत्रका ।
सुगन्धश्वासभृत् दक्षा, विशिष्टा च सुखाश्रया ॥७७॥ नीतिमाना नातिनम्रा, मधुराक्षरभाषिणी ।
सलज्जा रसिका गीतनृत्यज्ञा वाद्यकोविदा ॥७८॥
5
10
15
20
25