________________
चतुर्थ: पल्लवः ]
पत्युर्जीवितसंनिभा सुतवती चान्तर्धना सम्पदा,
पुण्याढ्या सुवधूः पुनाति चरणाम्भोजैर्गृहं श्रीरिव ॥ १६५ ॥ कुमारः प्रियया सार्धं, भुञ्जानः सुरवत् सुखम् । मातापित्रोः पदाम्भोजं, सेवते भृङ्गवत् सदा ॥१६६॥ यतः - ते पुत्रा ये पितुर्भक्ता, मातुर्वचनकारकाः ।
कुलशीलरता नित्यं, शेषा उदरकीटकाः ॥ १६७॥ वस्तु द्योतयते दीप:, प्रत्यक्षं निजतेजसा । निष्कलङ्कः पुनः पुत्रः, परोक्षानपि पूर्वजान् ॥१६८॥ स्वजनाम्भोरुहोल्लासी, रविवत् कुलदीपकः । पितृकीर्तिञ्च धर्म्मञ्च, गुणं च परिवर्धयेत् ॥१६९॥ मातृपितृषु ये भक्ता, भक्ता गुरुगोत्रिषु । दुर्भिक्षे चान्नदातारस्ते पार्थ ! पुरुषोत्तमाः ॥ १७०॥
यतः - दयैव धर्मेषु गुणेषु दानं प्रायेण चान्नं प्रथितं प्रियेषु ।
मेघः पृथिव्यामुपकारकेषु तीर्थेषु मातापितरौ तथैव ॥ १७१ ॥
यतः
"
अन्यदा नगरे तत्र, सुमित्रः सूरिरागतः । वनपालेन विज्ञप्तो, वन्दनाय नृपो ययौ ॥ १७२ ॥ वन्दित्वा विधिवत्सूरिमुपविष्टो महीपतिः । गुरुर्वैराग्यसम्पूर्णां, प्रददौ पुण्यदेशनाम् ॥१७३॥ भोः ! भव्या भवपाथोधिरगाधो दृश्यते महान् । तत्पारं प्राप्यते नैव, पुण्यप्रवहणं विना ॥१७४॥ विद्यया तपसा तीर्थयात्रया वा न निर्वृतिः । विना श्रीसाम्यधर्मेण, विकल्पैरपरैः किमु ? ॥ १७५ ॥ हूयते न तप्यते न दीयते वा न किञ्चन ।
अहो अमूल्यक्रीतेयं, साम्यमात्रेण निर्वृतिः ॥१७६॥ कन्या किल यथा विद्यातीर्थकष्टकृतामपि । नासीदासीत् स्थितस्यापि तन्मर्म्माहारदायिनः ॥ १७७॥
[ १४१
5
10
15
20
25