________________
[धर्मकल्पद्रुमः बुभोज विपुलान् भोगान् , तया सार्धं महीपतिः । दिनानि गमयामास, लीलया सुकृतेन च ॥२९॥ अथान्यदा सुखं सुप्ता, देहबाधाविवर्जिता । निशीथसमये स्वप्नमेवं देवी ददर्श सा ॥३०॥ उत्तुङ्गशृङ्गसदृशो, दृष्टो रत्नोच्चयो महान् । मुखे प्रविश्यमानोऽथ, जजागार च तत्क्षणात् ॥३१॥ प्रभातसमये राज्ञी, पत्युरग्रे न्यवेदयत् । एवं स्वप्नो मया दृष्टस्तत्फलं कथय प्रभो ! ॥३२॥ उवाच मतिकौशल्यान्निजचित्ते विचिन्त्य सः । स्वप्नस्यास्य प्रभावात्ते, देवि ! पुत्रो भविष्यति ॥३३।। स सर्व्वगुणसम्पूर्णो, रत्नराशिसमद्युतिः । प्रतापप्रबलो भावी, दृष्टः स्वप्नो यदीदृशः ॥३४॥ एवं स्वप्नफलं श्रुत्वा, गता प्रमुदिता गृहे । गर्भं बभ्रे च सा देवी, निधानमिव मेदिनी ॥३५॥ क्रमेण ववृधे गर्भ, उत्पन्नाः शुभदोहदाः । पूर्यन्ते पुण्ययोगेन, यथा राज्याः सुखं भवेत् ॥३६।। गर्भानुभावतो राज्ञी, चित्ते जानाति चैकदा । गजारूढा जगत् सर्वं, साम्प्रतं साधयाम्यहम् ॥३७।। दुष्पूरं दोहदं ज्ञात्वा, तं नृपेणाथ मन्त्रिणः । आकार्योचे कथं राज्या, दोहदो ह्येष पूर्यते ? ॥३८॥ तैस्तु विंशतियोजन्यां, कृत्वा देशान् पृथक् पृथक् । भ्रामिता तत्र राज्ञी दिग्जयदोहदपूरणे ॥३९॥ पर्णेष गर्भमासेष स्फरत्कान्तिसलक्षणम । सा राज्ञी सुषुवे सूनुं , यथा प्राची दिवाकरम् ॥४०॥ पुत्रे जातेऽभवद्राजा, हर्षादुत्फुल्लमानसः । पुत्रो हि जननीपित्रोः, परमानन्दकारणम् ॥४१॥
15
25