________________
चतुर्थः पल्लवः ]
परीतो वरवापीभिः, कूपारामसरोवरैः । यत्पुरं शोभते नित्यं, नररत्नैरलङ्कृतम् ॥१९॥
गवाक्षमण्डपस्तम्भद्वारतोरणशोभिताः ।
आवासा यत्र शोभन्ते, तुङ्गाः शिखरिशृङ्गवत् ॥२०॥ यदायामपृथुत्वेन, नवद्वादशयोजनम् ।
राजितं तुङ्गवप्रेण, गङ्गातटसमाश्रितम् ॥२१॥
यतः - स्थाने च यत्रास्ति जिनेन्द्रचैत्यं, साधम्मिकाः साधुसमागमश्च । प्रायेण लोकोऽपि च धर्म्मशीलः, सभद्रकः पातकतोऽतिभीरुः ॥२२॥ निखिलेऽपि पुरे यत्र, द्वे एते वसतः स्त्रियौ । देहेषु भारती देवी, गेहेषु कमला पुनः ||२३|| अभूद् विनयपालाह्वो, भूपतिस्तत्र पावनः । नयादिकगुणैर्युक्तो, विरक्तः पापकर्मतः ॥२४॥
यतः- न हीतयः क्षेत्रभुवः फलोत्तरा, अनिर्गलाः सन्ति सुखं कुटुम्बिनः । वियोगरोगानुभवः प्रजानां न जायते नीतिधुरन्धरे नृपे ॥२५॥ तत्प्रियाऽनङ्गसेनाह्वा, लज्जाविनयशालिनी ।
राज्ञीसप्तशतीमुख्या, दक्षा धर्मकलासु च ॥ २६॥
यतः - जवो हि सप्तेः परमं विभूषणं,
[ १२९
त्रपाऽङ्गनायाः कृशता तपस्विनः । विर्जस्य (छात्रस्य) वैद्यस्य मुनेरपि क्षमा, पराक्रमः शस्त्रबलोपजीविनाम् ॥२७॥
काव्यम्- स्वाध्यायाध्ययनं जिनेन्द्रमहनं शुश्रूषणं सत्पतेः, पात्रे दानविधिस्तपोऽप्यनुपमं साधम्मिके बन्धुधीः । संवेगाधिगमो मनः शममयं सत्त्वेषु नित्यं कृपा, प्रायेणोत्तमधर्म्मकर्म्म तदिदं स्त्रीणां सतीनां भवेत् ॥ २८ ॥
१. 'तोषश्च' इति चेत् साधु ।
5
10
15
20