________________
[धर्मकल्पद्रुमः काव्यम्- शीलं कीर्तिसितातपत्रकलशः शीलं श्रियः कार्मणं,
शीलं भावपयोधिशीतकिरणः शीलं गुणानां निधिः । शीलं संसृतिकानने कदलिका शीलं खनिः श्रेयसां, शीलं सत्त्वलतावसन्तसमयः शीलं तु मुक्तिप्रदम् ॥८॥ तीर्थानि वा व्रजतु तिष्ठतु चैकपाद, तोये निमज्जतु पतत्वथ वाऽद्रिशृङ्गात् । नैवास्ति शीलरहितस्य नरस्य सिद्धि/जाच्छिलातलगतादिव सस्यवृद्धिः ॥९॥ न मुक्ताभिर्न माणिक्यैर्न वस्त्रैर्न परिच्छदैः । अलङ्क्रियेत शीलेन, केवलेनैव मानवः ॥१०॥ धर्मकल्पद्रुमे दानशाखैषा वर्णिता पुरा । अधुना शीलशाखा तु , कथ्यते पुण्यपादपे ॥११॥ सुराः शीलेन सान्निध्यं, सदा कुर्वन्ति मानवे । रत्नपालस्य कान्तावत् , यान्ति विघ्नानि शीलतः ॥१२॥ अपृच्छद्भूपतिः केयं, रत्नपालप्रिया प्रभो ! । समग्रं श्रोतुमिच्छामि, तस्या अपि कथानकम् ।।१३।। स्वामी योजनगामिन्या, वाण्योचे शृणु भूपते ! ।
सर्वभूतहितं वच्मि, तच्चरित्रं यथातथम् ॥१४।। ६६ अस्त्यत्र मध्यगो द्वीपो, जम्बूद्वीपाभिधानतः ।
वर्तुलः स्थालसङ्काशो, लवणोदधिनाऽऽवृतः ॥१५।। तन्मध्येऽस्ति गिरिर्मेरुर्यत्रासन् वनान्तरे । जम्बूवृक्षोऽस्ति यन्नाम्ना, जम्बूद्वीपोऽयमुच्यते ॥१६।। मेरोदक्षिणदिग्भागे, लवणोदधिपार्श्वगमे । क्षेत्रं भरतनामैतत्पवित्रं पुण्यकर्मणा ॥१७।। तत्रास्ति भूमिभामिन्या, ललाटे तिलकोपमम् । विख्यातं पूर्वदेशे च, नगरं पाटलीपुरम् ॥१८॥
25