________________
चतुर्थः पल्लवः ]
यतः- नेपथ्यैर्विविधै रसैर्बहुविधैरुल्लापनैः क्रीडनैर्नामस्थापनचूलिकादिकरणैरालिङ्गनैर्वाहनैः । विद्याध्यापनकर्म्मकौशलगुणारोपैश्च यो नन्दनं,
[ १३१
स्वस्मादप्यधिकं करोति स पिता कैर्नाम न श्लाघ्यते ? ॥४२॥ राजा विनयपालोऽसौ दानगानादिभिर्भृशम् । सुतजन्मोत्सवञ्चक्रे, करान् देशे मुमोच च ॥४३॥ भोज्यालङ्कारवस्त्राद्यैर्गोत्रजा गोत्रिणो गुरून् । सन्तोष्य तत्पुरो राजा, बभाषे रचिताञ्जलिः ॥४४॥ अस्मिन् गर्भस्थिते मात्रा, दृष्टः स्वप्ने मणिव्रजः । रत्नपालोऽस्तु नाम्नाऽयं, ततः स्वप्नानुसारतः ॥४५॥ लाल्यमानोऽथ धात्रीभिर्ववृधेऽसौ दिने दिने । पित्रोर्मनोरथैः सार्धं, शुक्लपक्षे शशाङ्कवत् ॥४६॥ जन्मपत्र्यां बुधैर्दृष्टो, राजयोग इति स्फुटः । केन्द्रस्था गुरुशुक्रज्ञा, दशमो भूमिनन्दनः ॥४७॥ बुध भार्गवजीवानामेकोऽपि केन्द्रसंस्थितः । स्थानानि लभते नित्यं, महीभोक्ता भवेत् ध्रुवम् ॥४८॥ कर्म्मस्थाने यदा सौम्या, नीचस्था क्रूरगा ग्रहाः । स्वगृहस्थाः शुभैर्दृष्टाः, स नरः सर्वकार्यकृत् ॥४९॥ पुत्रस्यैवं ग्रहबलं, श्रुत्वा ज्योतिर्विदां मुखात् । राजा रङ्गभराद्भूयो, विप्रं विदुरमाह्वयत् ॥५०॥ विप्रोऽष्टाङ्गनिमित्तज्ञ, आगतो हस्तपुस्तकः । दत्ताऽऽशीस्तेन भूपस्य, महाराज ! चिरञ्जय ॥५१॥ आसनादिकसन्मानं, दत्त्वा मुक्त्वाऽग्रतः फलम् । प्रणामपूर्व्वकं राजा, पप्रच्छ सुतलक्षणम् ॥५२॥ विप्रोऽवादीन् महाराज ! शृणु सामुद्रिके यथा । उक्तानि लक्षणान्यङ्गे, तदहं कथयामि ते ॥५३॥
5
10
15
20
25