________________
तृतीयः पल्लवः]
[१२५ कायोत्सर्गस्थितं तत्र, मुनि वीक्ष्य तदालये । प्रोचे सखीक्ष्यतां साधुर्मुर्तपुण्यमिवाद्भुतम् ॥६२५।। ताभ्यां शृङ्गारसाराभ्यां, प्रोचे संवीक्ष्य तं मुनिम् । अहो मलिनता कापि भिल्लोऽयं मूर्तिमान् भवेत् ॥६२६।। एवं परस्परं स्मित्वा, यक्षं नत्वा गृहङ्गते । किञ्चिद्दानफलेनापि, मृत्वा जाते द्विजाङ्गजे ॥६२७।। भिल्लपत्न्यौ युवां जाते, साधुनिन्दोत्कर्मणा । फलदानप्रभावेणाधुना जाते नृपप्रिये ॥६२८।। श्रुत्वेति ते मुदा साधुं , नत्वा धर्मं जिनोदितम् । आदृत्य स्वगृहे प्राप्ते, सदा प्रीतिपरायणे ॥६२९।। प्रासादौ कारितौ ताभ्यां, जिनबिम्बविभूषितौ । आम्ररम्भातरू स्वर्णमयौ संस्थापितौ पुरः ॥६३०॥ एतयोः फलदानेन, जातं नौ राज्यमद्भुतम् । जिनं नत्वा च तौ वृक्षौ, दृष्ट्वैवं ते जहषतुः ॥६३१॥ अन्ते गत्वा जिनागारे, गृहीत्वाऽनशनं शुभम् । जैनश(भ)क्तिभवप्राप्त्यै, निदानं ते बबन्धतुः ॥६३२॥ जाते षोडशदेवीषु , रोहिण्यादिषु ते उभे । नवमी दशमी देव्यौ, गौरीगन्धारीनामतः ॥६३३॥ जिनशासनसान्निध्यकारिण्यौ कामितप्रदे । महावीर्यधरे ते द्वे, दानपुण्याद् बभूवतुः ॥६३४॥ पळतानां यथा मेरुः, यथेन्द्रः स्वर्गवासिनाम् । सर्वेषामपि धर्माणां, तथा दानमनुत्तरम् ॥६३५॥ धर्मोपदेशं हि निशम्य राजा, गुरुञ्च नत्वा नगरी जगाम । तस्मिंश्च राज्ये तनयं निवेश्य, पैत्र्यं चिरं राज्यमपालयत् सः ॥६३६।। श्रीचन्द्रधवलो धर्मदत्तयुक्तो महीतले । चिरं प्रपाल्य चारित्रं, सम्प्राप्तः परमं पदम् ॥६३७।।
25