________________
5
10
15
20
25
१६]
[ धर्मकल्पद्रुमः
भो भव्या धर्म्मकल्पद्रोर्दानशाखा प्रकीर्तिता । मोक्षं गता गमिष्यन्ति, यान्ति जीवाः सुदानतः ॥ ६३८॥ श्रीनाभेयजिनेश्वरो धनभवे पूर्वं श्रियामाश्रयः, श्रेयांसः स च मूलदेवनृपतिर्ये चक्रिशक्रादयः । धन्योऽयं कृतपुण्यकः शुभगुणः श्रीशालिभद्रो धनः, सर्व्वेऽप्युत्तमपात्रदानविधिना जाता जगत्युत्तमाः ॥६३९॥ दातव्यं शिवहेतवे निजधनं पात्राय तच्चार्हतां, बिम्बं सद्म च पुस्तकं निगदितं सङ्घश्चतुर्धा तथा । दीनाद्युद्धृतिपुण्यशालकरणं साधारणं चेत्यहो, सत्त्वेभ्योऽप्यनुकम्पया तु गृहिणा देयं यथाशक्तितः ॥ ६४० ॥ दानाल्लक्ष्मीर्विशाला वरमतुलसुखं निर्मला कीर्त्तिरुच्चै, - रौदार्यं धैर्यमायुर्वपुरपि विगदं रूपलावण्ययुक्तम् । सौभाग्यं वीर्यमुग्रं त्रिभुवनविभुता शक्रचक्रेश्वरत्वं, विज्ञानं जातिरुच्चा कुलमपि विपुलं धर्म्मसंसिद्धिरित्थम् ॥६४१॥
पात्रे पुण्यनिबन्धनं तदितरे प्रोद्यद्दयाख्यापकं,
भृत्ये भक्तिभरावहं नरपतौ सन्मानसम्पादकम् ।
मित्रे प्रीतिकरं सदा रिपुजने वैरापहारक्षमं,
भट्टादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् ॥६४२॥ नो शीलं प्रतिपालयन्ति गृहिणस्तप्तुं तपो न क्षमा, आर्त्तध्याननिराकृता जडधियस्तेषां कुतो भावना ? | इत्येवं निपुणेन हन्त मनसा सम्यग् मया निश्चितं, नोत्तारो भवकूपतोऽपि सुदृढं दानावलम्बात् परः ॥६४३॥ महानन्दपदं दत्ते, विधत्ते या सुखश्रियः । भव्यजीवौघसंसेव्या, दानशाखा श्रियेस्तु वः ॥ ६४४॥
इति श्रीवीरदेशनायां श्रीधर्म्मकल्पद्रुमे चतुः शाखिके दानशाखायां धर्म्मदत्तकथान्विते श्रीचन्द्रधवलनृपाख्याने तृतीयः पल्लवः समाप्तः ॥३॥ समाप्ता चेयं प्रथमदानशाखा ॥