________________
5
10
151
20
25
१९४]
[ धर्मकल्पद्रुमः
तयोर्जन्मनि भूपालः, कृत्वा प्रौढमहोत्सवम् । कमलावतीञ्च (च) लीलावतीत्याख्यां पिता व्यधात् ॥६१२॥ वर्धमाने कलाः सर्व्वास्ते अधीते मनोहरम् । यौवनं प्राप्य कस्य, लोकस्याहरतां मनः ? ॥६१३ ॥ अद्भुतं भाग्यरूपादि, संप्रेक्ष्य गुणसञ्चयम् । तयोर्वीक्ष्य मुदा भूपः, प्रकरोति स्वयंवरम् ॥६१४॥ अत्रानेकनरेन्द्राणां, मण्डले मिलिते सति । ताभ्यां वव्रे पद्मपुराधीशः सिंहनरेश्वरः ॥६१५॥ प्राप्ते स्वस्वपुरं राजमण्डले निखिले नृपः । सिंहोऽपि सहितस्ताभ्यां ययौ पद्मपुरं महान् ॥ ६१६॥ अन्यदा ते गवाक्षस्थे, मुनिमुत्पन्नकेवलम् । वीक्ष्य जातिस्मृतिं प्राप्ते, अद्राष्टां च निजं भवम् ॥६१७||
फलदानं ददे यस्मै स एवायं मुनीश्वरः ।
दृक्पथे भाग्ययोगेन, संप्राप्तो विद्यतेऽधुना ॥ ६१८।।
ततस्ते चेलतुस्तस्य, वन्दनाय वनं प्रति । रथारूढे परीवारयुक्ते ताभ्यां नतो मुनिः ॥६१९॥ घृतेक्षुरसदुग्धादि, मोदकफलकान्यपि । स दानं वर्णयामास, तीर्थकृद्गोत्रदायकम् ॥६२०॥ पूर्व्वे जन्मनि किं विप्रकुले जाते अपि ध्रुवम् । अभूव पत्न्यौ भिल्लस्य, दुष्कृतं किं कृतं पुरा ? ॥६२१॥ इति पृष्टो मुनिः प्रोचे, विशालाख्या पुरी वरा । दत्ताभिधोऽभवत् तत्र, श्रेष्ठी श्रीद इवापरः ॥ ६२२॥ लक्ष्मीवती प्रिया तस्य, प्रशस्यगुणशालिनी । तत्कुक्षिजे हेममाला - रत्नमालाभिधे सुते ||६२३॥ विवाहावसरे ते द्वे, सखीभिः परिवारिते । कामदेवाभिधं यक्षमच्चितुं जग्मतुर्व्वने ॥६२४||