________________
तृतीयः पल्लवः ]
श्रुत्वैवं देवशम्र्मापि, चिन्तयामास दुःखितः ।
धिग् धिग् मे यत् सुते एते, कुलीने तत्प्रिये कथम् ? ॥५९९॥
[ १२३
ततस्तेन धरापीठे, बहवश्चिन्तिता वराः ।
तयोः कर्मानुभावेन, वरः कोऽपि न मन्यते ||६००||
5
काव्यम् - पातालमाविशतु यातु सुरेन्द्रलोक-मारोहतु क्षितिधराधिपतिं च मेरुम् । मन्त्रौषधैः प्रहरणैः प्रकरोतु रक्षां यद्भावि तद्भवति नात्र विचारहेतुः ॥६०१॥ तातेन मातृशालायाः, प्रेषिते मातुलालये । शुभेऽचलतां मार्गे, भिल्लधाट्यमिलत् तयोः ||६०२|| गृहीत्वा ते स्त्रियौ भिल्लैः, पल्लीशाय समप्पिते । तस्य प्रिये उभे जाते, विप्रधर्म्यं न मुञ्चतः ||६०३|| अन्यदाऽऽगात् फलाहारः कश्चिद् व्रतदिनो जने । वनान्तरे स्थिते ते द्वे, स्नानं कृत्वा सरोवरे ॥ ६०४॥ सहकारफलान्येका, निर्बीजीकृत्य तस्थुषी । अन्या रम्भाफलान्याशु, भोक्तुं सज्जीचकार च ॥६०५॥ ततस्ते दध्यतुश्चित्ते, जन्म जातं निरर्थकम् । ब्राह्मणानां कुले भूत्वा, भिल्लपत्न्यौ बभूविव ||६०६॥ यदि कोऽपि समायाति भिक्षुः चक्षुः पथेऽधुना । पुनाति तत्फलाहारमस्मदीयमनुग्रहात् ||६०७|| मुनिर्मासोपवासस्य, पारणे पुण्यकारणे । धर्म्मदत्ताभिधस्तत्र, भाग्ययोगात् तदाऽऽगमत् ॥६०८|| फलानि तानि तस्मै ते, ददते स्म मुदा तदा । तयोः कुलादिकं सर्वं जानानो मुनिरग्रहीत् ॥ ६०९॥ गते मुनौ फलाहारं, चक्रतुस्ते अपि स्वयम् । कुर्वाणे च गृहं प्राप्ते, चिरं चित्तेऽनुमोदनाम् ॥६१०॥ मृत्वा चान्ते समाधाय प्रतिष्ठानाभिधे पुरे । पद्मभूपप्रियापद्मावतीकुक्षौ समागते॥६११॥
10
15
20
25