________________
10
[धर्मकल्पद्रुमः श्रीवीरधवलो राजा, प्रविवेशोत्सवात् पुरम् । अभिषेकः शुभे लग्ने, चक्रेऽस्य सचिवादिभिः ॥५८६।। तत्स्वरूपं पिता तस्य, विज्ञाय बहुमानतः । निजं राज्यं ददौ तस्मै, सोऽभूद्राज्यद्वयेश्वरः ॥५८७।। श्रीचन्द्रधवलः सूरि-रागाच्चन्द्रपुरी कदा । श्रीवीरधवलो ज्ञात्वा, वन्दनाय ययौ रयात् ॥५८८॥ वन्दित्वा विधिना सूरिमुपविश्य च तत्पुरः । सद्धर्मदेशनां पाप-नाशिनीमशृणोदिति ॥५८९॥ देहस्पृशां दुर्गतिपातुकानां, धर्ता ततो धर्म इति प्रतीतः ।
दानादिभेदैः स चतुष्प्रकारः, संसारविस्तारहरश्चतुर्धा ॥५९०॥ यतः- जं जं इ8 लोए, तं तं साहूण देइ सद्धाए ।
थोवं पि कुणइ सुकयं, तस्स कयं नो पणासेइ ॥५९१॥[ ] इहार्थे श्रूयतां राजन् , सम्बन्धो दानसत्फलः । काम्पील्ये ब्रह्मदत्ताह्वश्चक्री राज्यमपालयत् ।।५९२।। तस्मिन् पुरे वरो विप्रो, विप्रकर्मरतः सदा । देवशर्माभिधस्तस्य, देवदत्ता च वल्लभा ॥५९३।। जातास्तयोः सदाचाराश्चत्वारो नन्दनोत्तमाः । ततः परं सुते जाते, उभे सर्व्वगुणैः शुभे ॥५९४॥ गौरीति किल गान्धारी, चेति नामयुगं तयोः । मुदा पित्रादिभिश्चक्रे, क्रमादृद्धिञ्च ते गते ॥५९५।। पाणिग्रहणयोग्ये ते, दृष्ट्वा तातो व्यचिन्तयत् । केनाप्युत्तमविप्रेण, सनाथे प्रकरोम्यम् ॥५९६॥ कोऽपि नैमित्तिकः प्राप्तो, विदेशात् तस्य सद्मनि । तातेन दर्शिता तस्मै, सुतयोर्जन्मपत्रिका ॥५९७।। स बभाषे च तां दृष्ट्वा, धूनयन् निजमस्तकम् । एते तव सुते भिल्लवल्लभे भो भविष्यतः ॥५९८॥
15