________________
तृतीयः पल्लव:]
[१२१ इत्युक्त्वा सक्तुपिण्डं तमुत्पाट्य प्रासुकं ददौ । गृहीत्वा तं ययौ साधुः, शेषपिण्डमभुक्त सः ॥५७४।। धन्योऽहं यन्मया दत्तं, यावदेवमचिन्तयत् । तावच्छासनदेव्यागात् , स्वप्नस्ते दर्शितो यया ॥५७५॥ सा वीरधवलं प्रोचे, धन्योऽसि त्वं च भाग्यवान् । दत्तं तुभ्यं मया राज्यं, श्रीचन्द्रधवलस्य हि ॥५७६।। ततो देवतयाऽत्रैष, आनीतः सुरसेवितः । श्रीवीरधवलः सोऽयं, तस्मै राज्यं ददौ नृपः ॥५७७॥ जग्राहाथ व्रतं राजा, धर्मदत्तश्च सप्रियः । श्रीवीरधवलो राजा, चक्रे तेषां व्रतोत्सवम् ॥५७८।। तेषां गृहीतदीक्षाणां, व्रतशिक्षां ददौ गुरुः । धर्मशिक्षां च भूपस्य, प्राप्तराज्यस्य पुण्यतः ॥५७९॥ धर्मो यस्य पिता क्षमा च जननी भ्राता मनःसंयमः, सनः सत्यमिदं दया च भगिनी नीरागता गेहिनी । शय्या भूमितलं दिशोऽपि सदनं (वसनं) ज्ञानामृतं भोजनं,
यस्यैतानि सखे ! कुटुम्बमनघं तस्येहं कष्टं कथम् ? ॥५८०॥ यतः- धर्मादवाप्यते राज्यं, धर्मात् सुखफलोदयः ।
धर्मादवाप्यते सिद्धिस्तस्माद्धर्म समाचर ॥५८१॥ मर्कट्यपि गुरून् दृष्ट्वा, दृष्ट्वा धनवतीव्रतम् । जातिस्मरणयोगेन, प्रबुद्धा गुरुवाक्यतः ॥५८२।। दयाधर्मं समाराध्य, सौधर्मे साऽभवत् सुरी । तेषामेव गुरूणाञ्च, जाता सान्निध्यकारिणी ॥५८३॥ नवीनशिष्यसंयुक्तो, विजहार क्षितौ गुरुः । श्रीचन्द्रधवलः साधुः, जातः सिद्धान्तपारगः ॥५८४।। प्राप सूरिपदं सोऽथ, क्रमाज्जज्ञे च केवली । धर्मदत्तयुतो विश्वे, स भव्यान् प्रत्यबोधयत् ॥५८५।।
15
25