________________
[धर्मकल्पद्रुमः चौर्यपापद्रुमस्येह, वधबन्धादिकं फलम् । जायते परलोके तु , फलं नरकवेदना ॥५६१॥ [ यो.शा./२/६९] कुमारोऽचिन्तयच्चौरं, राजा प्रातर्हनिष्यति । पञ्चेन्द्रियवधात् पापं, निश्चितं मे भविष्यति ॥५६२।। विचिन्त्यैवं कुमारेण, चौरं प्रतीति भाषितम् । अरे त्वामद्य मुञ्चामि, मा कार्षीश्चौरिकां पुनः ॥५६३।। ओमित्युक्ते विमुक्तोऽसौ, तत्क्षणादगमत् क्वचित् । चौरो मुक्तो नृपाग्रे न, वक्तव्यो वारिता भटाः ॥५६४।। प्रभाते भूभुजा पृष्टं, न प्राप्त: किं मलिम्लुचः ? । भटैरुक्तं न लब्धोऽद्य, विलक्षोऽभूत् तदा नृपः ॥५६५।। तद्दिने भूभुजा रात्रौ, छन्नं विचरता पुरे । चौरो मुक्तः सुतेनेति, स्वरूपं ज्ञातमात्मना ॥५६६।। कुपितेन सुतस्तेन देशान्निष्कासितो द्रुतम् । स वीरधवलो भ्राम्यन् , गतो भद्दलके पुरे ॥५६७।। क्षुधाक्षामः स भिक्षार्थं, प्रविष्टो रङ्कवत् पुरे ।
किं न कुर्य्यान्नरो वामे, विधौ जाते ह्यपुण्यतः ॥५६८॥ काव्यम्- यस्य पादयुगपर्युपासना, नो (न्नो) कदापि रमया विरम्यते ।
सोऽपि यत् परिदधाति कम्बलं, तद्विधेरधिकता( तो)ऽधिकं बलम् ॥५६९॥ भिक्षायै भ्रमता तेन, कस्मिन् पर्व्वणि तद्दिने । सम्प्राप्ताः सक्तवः पश्चात्तान्नीत्वाऽगात् सरोवरे ॥५७०।। सक्तून् गुडाम्बुना कृत्वा, मिश्रितान् स व्यचिन्तयत् । यद्येति साम्प्रतं पात्रं, तस्मै सक्तून् ददाम्यहम् ॥५७१॥ तावत् तद्भाग्ययोगेन, कोऽपि मासोपवासकृत् । साधुरागाच्चरन्मार्गे, तं दृष्ट्वा सोऽब्रवीन्मुदा ॥५७२।। अद्य पूर्वसुकृतं फलितं मे, लब्धमद्य वहनं भववाौं । अद्य चिन्तितमणिः करमागाद्वीक्षितो यदि भवान् मुनिराजः ॥५७३॥
25