________________
तृतीयः पल्लव:]
[११९ दिव्यरूपधरः कोऽपि, मानवः सुरसेवितः । अकस्मादागतस्तत्रोत्ततार च रयाद् गजात् ॥५४८।। त्रिभिर्विशेषकम् ।। तिस्रः प्रदक्षिणा दत्त्वा, नत्वा गुरुमुपाविशत् । धराधवं गुरुः प्राहायं वीरधवलस्तव ॥५४९।। कोऽयं कीदृग् ? नृपेणोक्तं, गुरुराह निशम्यताम् । सिन्धौ वीरपुरं रम्यं, तत्र सिंहशिखो नृपः ।।५५०॥ प्रिया प्रेमवती तस्य, सत्प्रेमरसपद्मिनी । वीराग्र्यो वीरधवलो, नामतोऽभूत् सुतस्तयोः ॥५५१॥ मृगयाव्यसनासक्तो, गर्भिणी सोऽन्यदा वने । मृगी बाणेन विव्याध, तद्गर्भश्चापतद् बहिः ॥५५२॥ स्फुरन्तं वीक्ष्य भ्रूणं तं, सदयोऽसौ व्यचिन्तयत् ।
धिग्मां येन कृतं निन्द्यं, कम्मॆतद्बालहत्यया ॥५५३॥ यतः- रसातलं यातु यदत्र पौरुषं, कुनीतिरेषा शरणो ह्यदोषवान् ।
निहन्यते यद्वलिनापि दुर्बलो, हहा महाकष्टमराजकं जगत् ॥५५४॥ स्वं निन्दन् जीवघातस्य, नियमं (व्रतं) जग्राह सर्व्वदा । पापर्धेश्च निवृत्तोऽसौ, दयालुर्गृहमागतः ॥५५५॥ अन्यदा नागरनरैर्विज्ञप्तो नरनायकः ।। नगरं मुषितं चौरैः, स्वामिन्नित्यवधारय ॥५५६।। आरक्षकस्य राज्ञोक्तं, पुररक्षां करोषि न ? । तेनोक्तं क्रियते देव ! दुर्ग्राह्यस्तस्करः परम् ॥५५७।। पौराणां कथितं राज्ञाऽद्याहं बध्नामि तस्करम् । हर्षिता वालिताः पौराः, सायं मुक्ताश्चतुष्किकाः ॥५५८।। राज्ञादिष्टः कुमारोऽथ भटयुक्तः पुरेऽभ्रमत् । भटास्त्रिकचतुष्केषु , चरवृत्त्या चरन्ति के ॥५५९॥ ततो दैववशात् कोऽपि सुभटैस्तस्करो धृतः । आनीतश्च कुमाराग्रे, बद्धः सुदृढबन्धनैः ॥५६०॥
15
25