________________
5
10
15
20
25
]
[ धर्मकल्पद्रुमः
गुरुः प्राह प्रजाधीश !, संयमायोद्यतो भव । त्वद्व्रतावसरे तस्यागमोऽकस्माद् भविष्यति ॥५३६॥ आगत्य रविवत्पूर्व्व-दिशः सोऽत्र करिष्यति । तव दीक्षोत्सवं राजन् !, श्रुत्वेत्यागान्नृपो गृहम् ॥५३७॥ सप्तक्षेत्रेषु सद्रव्यं, वपति स्म स्वकोशतः । दीनानाथदरिद्रेषु, ददौ चादापयद् धनम् ॥५३८॥ दानशौण्डा न तन्वन्ति, पात्रापात्रविचारणम् । कमलं कुलहंसेऽपि, मधुपेऽप्यागते समम् ॥५३९॥ काव्यम् - अत्यन्तं यदि वल्लभं धनमिदं त्यक्तुं त्वया नेश्यते, सौहार्दाद्यदहं ब्रवीमि वचनं तद्भद्र ! शीघ्रं कुरु । भक्त्या सत्कृतिपूर्वकं गुणवते पात्राय यच्छ स्वयं, येनानेन सुरक्षितं बहुविधं जन्मान्तरे प्राप्यते ॥५४०॥ प्रासादप्रतिमार्थेषु, सत्रागारेष्वमारिषु । ददौ राजा धनं स्वीयं, यथाऽऽषाढे घनो जलम् ॥५४१॥ धर्म्मदत्तो धर्म्मसिंहे, पुत्रे धनवतीभवे । गृहभारं समारोप्य, भूपसार्थे व्रतार्थ्यभूत् ॥५४२॥ महता समुदायेन, शुभेऽह्नि समहोत्सवम् । गुरुपार्श्वे ययौ राजा, धर्म्मदत्तोऽपि सप्रियः ||५४३॥ भूपालश्चारु चारित्रं, ययाचे गुरुसन्निधौ । ऊचुर्मिथस्तदा लोकाः, को हि राज्यस्य रक्षकः ? ॥५४४॥ राज्यार्हः कोऽपि नायात, इति यावद्वदन्ति ते । दिव्यतूर्यरवस्तावदभवत् पूर्व्वादिग्मुखे ॥५४५॥ विस्मिता मानवाः पूर्व-दिशं पश्यन्ति सर्व्वतः । तावत् श्वेतगजारूढः, प्रौढच्छत्राभिशोभितः ॥५४६॥ चामरैर्वीज्यमानश्च, पार्श्वयोरुभयोरपि । देवदुन्दुभिवादित्रगीतनृत्योत्सवान्वितः ॥५४७॥