________________
तृतीयः पल्लवः ]
त्वयाऽत्र स्थीयतां तावत् कृपां कृत्वा ममोपरि । गुरुराह महीनाथ ! पुनर्मा भूः प्रमादवान् ॥ ५२४ ॥ युग्मम् ॥ धर्म्मदत्तयुतो राजा, गृहे गत्वा च मन्त्रिणः । आहूयोवाच राज्यं मे, कस्य देयं तदुच्यताम् ॥ ५२५।। ऊचुस्तु कथ्यते किं ते, दुर्दैवे वक्रतां गते । रत्नदोषी विधिर्येन, न दत्तस्तव नन्दनः ॥५२६॥ यतः - शशिनि खलु कलङ्कः कण्टकाः पद्मनाले, जलधिजलमपेयं पण्डिते निर्धनत्वम् । दयितजनवियोगो दुर्भगत्वं सुरूपे, धनवति कृपणत्वं रत्नदोषी कृतान्तः ॥५२७॥ त्वया प्रवर्तयाञ्चक्रे, स्वामिन् ! संवत्सरं निजम् । तथापि नन्दनो नाभूदहो कर्म्मबलं महत् ॥५२८॥ यस्य कस्यापि निन्द्यस्य, राज्यं दातुं न युज्यते । त्वमेव सुचिरं तेन कुरु राज्यं नराधिप ! ॥ ५२९ ।। इत्युक्त्वा मन्त्रिणो जग्मुः, सायं राजा स्वचेतसि । स्मृत्वा शासनदेवींस, शुचिः सुप्तः समाहितः ॥५३०|| रात्रेश्चतुर्थयामेऽथ, स्वप्नमेवं ददर्श सः । कापि स्त्री वररूपाढ्या, दिव्याभरणभूषिता ॥ ५३१|| इयं नृपं प्रति प्राह, कथं चिन्तातुरोऽसि भोः ! । तव राज्यं मया वीरधवलाय ददे स्वयम् ॥ ५३२॥ क्षिप्यते वरमालैषा, कण्ठे ते संयमश्रियः । इत्युक्त्वा सा गता राजा, प्रबुद्धोऽचिन्तयत् हृदि ॥५३३॥ को वीरधवलः प्रोक्तः ? क्वास्त्यसौ कस्य नन्दनः ? | श्रीगुरुः पृच्छ्यते ह्येतत्, तं विना कोऽपि वेत्ति न ||५३४|| भूपः पप्रच्छ भगवन् ! को वीरधवलो बली ? । मद्राज्यभारधौरेयो, देव्या प्रोक्तो भविष्यति ॥ ५३५॥
[ ११७
5
10
15
20
25