________________
[धर्मकल्पद्रुमः रागादिदहनज्वाला, न प्रशाम्यन्ति देहिनाम् । सद्वृत्तवारिसिक्तास्ताः, शमयाञ्चक्रिरे मया ॥५११॥ क्वचिद्गीतैः क्वचिन्नृत्यैः, क्वचिद्वाक्यैर्मनोहरैः । क्वचिद्विलासिनीवातक्रीडाशृङ्गारदर्शनैः ॥५१२॥ दशाङ्गभोगजैः सौख्यैर्लोभ्यमानाः क्वचित् क्वचित् । वसन्ति स्वग्गिणः स्वर्गे, कल्पनातीतवैभवाः ॥५१३॥ इच्छासंपन्नसार्थमनोहारिसुखामृतम् । निविघ्नमुपभुञ्जाना, गतं जन्म न जानते ॥५१४॥ इत्थं सुरसुखं भुक्त्वा, च्युत्वा चात्र पुरे वरे । पितृजीवो धर्मदत्तो, जातः श्रीपतिश्रेष्ठिसूः ॥५१५।। पुरा साधुसंविभागेऽतिचारा अन्तरे कृताः । तेनायमन्तरे दुःखी, जातो दानस्य दूषणात् ॥५१६।। साधुभ्यो दापिता भावात् , षोडशैव च मोदकाः । षोडशस्वर्णकोटीश, एवाभूदिति पुण्यतः ॥५१७|| पुत्रजीवसुरश्च्युत्वा, राज॑स्त्वं पुण्यभागभूः । असङ्ख्यमुनिदानेनाक्षयस्वर्णनरोऽभवत् ।।५१८।। इति श्रुत्वा धराधीशश्चिन्तयामास चेतसि । धर्म एव सदा येषां, लक्ष्मीर्वसति तद्गृहे ॥५१९॥ परं मोक्षं विना सौख्यं, शाश्वतं न भवेत् क्वचित् । चारित्रञ्च विना मोक्षः, प्राप्यते नैव जन्तुभिः ॥५२०॥ दारिद्यं देहिनां तावन्न यावत् कल्पपादपः । भविनां भवभीस्तावत् , यावन्नवाप्यते व्रतम् ॥५२१॥ भवाब्धितरणे पोतं, सेतुं संसारसागरे । सिद्धिसौधाधिरोहस्य, सोपानमिव सव्रतम् ॥५२२॥ गुरुं प्रोचे ग्रहीष्येऽहं, धर्मदत्तयुतो व्रतम् । भगवन् ! यावदायामि, राज्यचिन्तां विधाय च ॥५२३॥
15
20
25