________________
10
तृतीयः पल्लवः]
[११५ ध्वजचामरछत्रा.विमानैर्वनितासखाः । सञ्चरन्ति सुरैः सारं, सेव्यमानाः सुरेश्वराः ॥४९७॥ क्रीडागिरिनिकुञ्जेषु , पुष्पशय्यागृहेषु च । रमन्ते त्रिदशास्तत्र, वरस्त्रीवृन्दवेष्टिताः ॥४९८॥ गीतवादित्रविद्यासु , शृङ्गाररसभूमिषु । अनङ्गप्रतिमा धीराः, सर्व्वलक्षणलक्षिताः ॥४९९॥ हारकुण्डलकेयूरकिरीटाङ्गदभूषिताः । मन्दारमालतीगन्धा, अणिमादिगुणान्विताः ॥५००॥ न तत्र दुःखितो दीनो, वृद्धो रोगी गुणच्युतः । विकलाङ्गो गतश्रीकः, स्वर्गलोके सुरोत्तमः ॥५०१॥ दिव्याकृतिसुसंस्थानाः, सप्तधातुविवर्जिताः । कायाः कान्तिपयःपूरैः, प्रसाधितदिगन्तराः ॥५०२॥ मृगाङ्कमूर्तिसङ्काशाः, शान्तदोषाः शुभाशयाः । अचिन्त्यमहिमोपेता, भवक्लेशातिवर्जिताः ॥५०३॥ वर्धमानमहोत्साहा, वज्रकाया महाबलाः । नित्योत्सवा विराजन्ते प्रसन्नापांशुविग्रहाः ॥५०४॥ सुखामृतमहाम्भोधेर्मध्यादिव विनिर्गताः । भवन्ति त्रिदशाः सद्यः, क्षणेन नवयौवनाः ॥५०५॥ गीतवादिनिर्घोषैर्जयमङ्गलपाठकैः । विबोध्यन्ते शुभैः शब्दैः, सुखसुप्ता इव स्वयम् ॥५०६॥ देवाङ्गनाद्या एवं वदन्ति, अद्य नाथ ! वयं धन्याः । सफलं चाद्य जीवितम् , अस्माकं यत्त्वया स्वर्गः, संभवेन पवित्रतिः ॥५०७॥ प्रसीद जय जीव त्वं, देव ! पुण्यस्तवोद्भवः ।
भव प्रभुः समग्रस्य, स्वर्गलोकस्य सम्प्रति ॥५०८॥ नवीनदेवो वक्ति
अहो तपः पुराचीर्णं मयाऽन्यजनदुश्चरम् । वितीर्णं चाभयं दानं, प्राणिनां जीवितार्थिनाम् ॥५०९॥ निर्दग्धं विषयारण्यं, मारवैरी निपातितः । कषायतरवश्छिन्ना, रागशत्रुर्नियन्त्रितः ॥५१०॥
15
25