________________
5
10
15
20
25
११४]
[ धर्मकल्पद्रुमः
कर्म्मणा मनसा वाचा, न पीडयति यः परान् । सर्व्वथा शुभभावो यः, स याति त्रिदिवं नरः ॥४८४॥ भवनेशा व्यतराश्च, ज्योतिष्काश्च विमानजाः । देवाश्चतुर्विधा एते कथिता जिनशासने ॥४८५॥ वैमानिका द्विधा प्रोक्ता, ज्योतिष्काः सन्ति पञ्चधा । अष्टधा व्यन्तराः सर्व्वे, दशधा भवनाधिपाः ॥४८६ ॥ सौधर्मेशाननामानौ, सनत्कुमार एव च । माहेन्द्रब्रह्मलोकौ च, लान्तकः शुक्र एव च ॥४८७॥ सहस्त्रारानतौ चैव, प्राणतश्चारणाच्युतौ ।
स्वर्गाः प्रोक्ता द्वादशैते, नव ग्रैवेयका अमी ॥ ४८८ ॥ सुदर्शनं सुप्रबन्धं, मनोरमं सर्व्वभद्रसुविशाले । सुमनस्यं सौमनसं प्रीतिकमादिमतं नवमम् ॥४८९॥ विजयं वैजयन्तं च, जयन्तं चापराजितम् । सर्वार्थसिद्धिरेतानि पञ्चैवानुत्तराणि च ॥४९० ॥ मुक्तिक्षेत्रं ततश्चोर्ध्व - मनन्तसुखभाजनम् । निश्चलं च निराबाधं, जरामरणवर्जितम् ॥४९१॥ निशादिनविभागोऽपि न तत्र त्रिदशालये । रत्नालोकः स्फुरत्युच्चैः, सततं नेत्रसौख्यदः ॥४९२॥ वर्षातपतुषारादि- समयैः परिवर्जितः ।
सुखदः सर्व्वदा सौम्य - स्तत्र कालः प्रवर्तते ॥४९३॥ उत्पातभयसन्ताप-चौरादिभङ्गविड्वराः । न हि स्वप्नेऽपि दृश्यन्ते, क्षुद्रसत्त्वाश्च दुर्जनाः ॥४९४ ॥ चन्द्रकान्तशिलाबद्धाः, प्रवालदलदन्तुराः । वज्रेन्द्रनीलनिर्माणा, विचित्रास्तत्र भूमयः ॥ ४९५॥
माणिक्यरोचिषां चक्रैः, कुर्बुरीकृतदिग्मुखाः । वाप्यः स्वर्णाम्बुजच्छन्ना, रत्नसोपानराजिताः ॥४९६॥