________________
तृतीयः पल्लव:]
[११३ श्रेष्ठी पुनरुवाचैवं, लक्ष्मीचन्द्रसुतं प्रति । मुनिभ्यो देहि मद्वाचा, वत्स ! षोडश मोदकान् ॥४७१।। सतेनाचिन्ति दक्षेण, साधवः सन्त्यनेकशः । सङ्ख्यामात्रेण दत्तेन, किं फलं चाग्रतो भवेत् ? ॥४७२।। मद्विवाहे कृताः सन्ति, मोदका मानवर्जिताः । अत एवैष मे लाभो, मुनिभ्यो दीयते बहु ॥४७३॥ अत्यन्तहर्षतस्तेन, भृत्वा स्थालमसङ्ख्यया । साधुभ्यो मोदका दत्ता, यावत् सृतेतिभाषणम् ॥४७४।। गतेषु साधुषु श्रेष्ठी, सुतं पप्रच्छ मोदकाः । षोडशापि त्वया दत्ता ?, दत्ताः पुत्रेण भाषितम् ॥४७५।। तावन्मात्रं तदा पुण्यं, श्रेष्ठिना समुपार्जितम् । पुत्रेणागणिताद्दानात् सम्पूर्णं पुण्यमज्जितम् ॥४७६।। सुतस्यापि विवाहेऽथ, कृते जाताः सुता घनाः । शुद्धः श्रावकधर्मोऽयं, चिरं द्वाभ्यां प्रपालितः ॥४७७॥ अथ तौ पितृपुत्रौ द्वौ, प्रपाल्यायुर्निजं निजम् ।
शुभध्यानेन सौधर्मे, स्वर्गे जातौ सुरोत्तमौ ॥४७८॥ यतः- सत्यञ्च धर्मश्च पराक्रमश्च, भूतानुकम्पा प्रियभाषणञ्च ।
गुरुस्वदेवातिथिपूजनञ्च, पन्थानमाहुस्त्रिदिवस्य सन्तः ॥४७९॥ सत्येन तपसा क्षान्त्या, दानेनाध्ययनेन च । सर्वस्याश्रयभूताश्च, ते नराः स्वर्गगामिनः ॥४८०॥ मनसश्चेन्द्रियाणां च, ये नित्यं संयमे रताः । त्यक्तशोकभयक्रोधास्ते नराः स्वर्गगामिनः ॥४८१॥ आढ्याश्च रूपवन्तश्च, यौवनस्था विचक्षणाः । ये वै यतेन्द्रिया धीरा-स्ते नराः स्वर्गगामिनः ॥४८२॥ आक्रोशन्तं स्तुवन्तं वा, तुल्यं पश्यन्ति ये नराः । शान्ता दान्ता जितात्मान-स्ते नराः स्वर्गगामिनः ॥४८३॥
15
25