________________
१२]
[धर्मकल्पद्रुमः यावद् गन्तुं प्रवृत्तोऽग्रे, तावद् बुम्बारवोऽभवत् । श्रेष्ठिनाऽचिन्ति मे पुण्यं, यन्न रात्रौ तदा गतः ॥४५८।। यावत् कियच्चचालाग्रे, तावत् सर्वेऽपि सार्थिकाः । नग्नीभूताः क्षणात् तेन, दृष्टाः पश्चात् समागताः ॥४५९।। तं प्रोचुः तेऽपि धन्यस्त्वं, पुण्यं जागरितं तव । अस्माकं मिलिता धाटी, ईदृशीकृत्य मोचिताः ॥४६०।। तेभ्योऽथ ललिताङ्गेन, दत्तं वस्त्रादिकं बहु । स रक्षां तेषु कुर्वत्सु , क्षेमेण स्वगृहे गतः ॥४६१।। तत्रैव वस्तुभिस्तस्य, विक्रीतैस्तैर्महार्घतः । घनो लाभोऽभवत् तेन, नियमं सोऽग्रहीदिति ॥४६२।। अस्मिन् भवे मया नैव, कार्यं शकटवाहनम् । गृहे स्थितस्य यो लाभो, व्यवसायान्ममास्तु सः ॥४६३।। तद्दिनात् कमला तस्य, घनैवाभूत् शनैः शनैः । कियत्यपि गते काले, लक्ष्मीचन्द्रः सुतोऽजनि ॥४६४।। स क्रमाद् यौवनं प्राप, तस्य पाणिग्रहोत्सवे । आगताः साधवः केऽपि, विहर्तुं श्रेष्ठिनो गृहे ॥४६५।। तस्मिन्नवसरे श्रेष्ठी, कुर्खन्नस्ति जिनार्चनम् । पृष्टं तेन गृहे कोऽस्ति ?, लक्ष्मीचन्द्रोऽब्रवीत् ततः ॥४६६।। अहमस्मि गृहे तात !, कार्यमादिश्यतां मम । सोऽवादीद् वत्स ! पृच्छ त्वं, कियन्तः सन्ति साधवः ॥४६७।। तत्पृष्टे मुनिभिः प्रोक्तं, मुनिपञ्चशतैर्वृताः । श्रीधर्मघोषसूरीन्द्राः, सन्त्योह समागताः ॥४६८|| तेषां शिष्या वयं केचिद् गोचर्यायां प्रवर्तिताः ।
श्रुत्वेति श्रेष्ठ्यऽवग् भाग्यादुत्सवे गुरुरागतः ॥४६९।। यतः- पहसन्तगिलाणेसुं , पारणए तह य लोयकरणे य ।
उत्तरपारणगम्मि य, दाणं च बहफलं होई ॥४७०॥ []
15
25