________________
तृतीयः पल्लवः]
[१११ संविभागं कदा चक्रे, पञ्चातिचारसंयुतम् । कदाचित् प्रासुकं वस्तु , सचित्ते क्षिपति स्म सः ॥४४५॥ पिधत्ते वा सचित्तेन, साधुदानरुचिं विना । कालातिक्रमणं कृत्वा, साधूनाह्वयति स्म सः ॥४४६॥ ऊचे वस्तु परस्यैतत् , कल्पते यदि गृह्यताम् । कदाचित् मत्सरं चक्रे, पञ्चातिचारका अमी ॥४४७॥ कुर्चतः सर्वदा धर्म, तस्य कालो ययौ कियान् । एकदा कोऽपि सार्थेशऽन्यदेशे गन्तुमुद्यतः ॥४४८।। ललिताङ्गं सुहृत् कोऽपि, प्रोचे सार्थे त्वमेहि भोः ! । सर्वसामग्री शकटवृषभादेश्च मेलय ॥४४९।। स यावत् प्रगुणीभूतः, स तावत् सार्थपोऽचलत् । वस्तनः शकटान भुत्वा, पृष्ठेऽसौ चलितो द्रतम ॥४५०|| सुप्रदेशे स्थितो रात्रौ, निशायां श्रावकाग्रणीः । निस्सञ्चलं समुत्थाय, प्रतिक्रमणमातनोत् ॥४५१॥ नमस्कारं स्मरन्नस्ति, तावत्सर्वेऽपि सार्थिकाः । चल्यतां चल्यतामेवं, ब्रुवाणा उत्थिता द्रुतम् ॥४५२॥ शकटान् योजयन्तस्ते, ललिताङ्गेन वारिताः । स्वस्थाः स्थ भो घना रात्रिरस्ति सामायिकं मम ॥४५३।। ऊचुस्ते स्थितिवेला न, प्रयाणं दूरतो भवेत् । क्षुत्तृषाभ्यां बलीवा, म्रियन्तेऽप्यातपेन च ॥४५४॥ शकटान् स्थापयिष्यामोऽग्रतो गत्वा वयं पुनः । इत्युक्त्वा ते गताः सर्वे, स्थापिता न स्थिताः क्षणम् ॥४५५।। श्रेष्ठिना चिन्तितं ह्येतैः, सार्थिकैः किं प्रयोजनम् ? । भव्यं जातं गता एते, पूर्ण सामायिकं मम ॥४५६।। कृते देशान्तरे चास्मिन्नलं शकटयात्रया । चिन्तयित्वेति स श्रेष्ठी, पारयामास तद्वतम् ॥४५७।।
15
20