________________
10
[धर्मकल्पद्रुमः उन्मार्गदेशनपराः कृतमार्गनाशा, मायाविनो विहितजातिबलादिमानाः । अन्तः सशल्यशठशीलपराश्च जीवास्तिर्यग्गतेजननमायुरुपार्जयन्ति ॥४३४॥ ये तु प्रकृत्याऽणुकषाययुक्ता, दानप्रियाः संयमशीलशून्याः । गुणैर्युता मध्यममार्गभाजो, बध्नन्ति जीवा मनुजायुरेते ॥४३५॥ अणुव्रतमहाव्रतैर्व्यपगतातिचारैर्युताः, सबालतपसोऽथवा दधुरकामतो निर्जराम् । एके च जिनवन्दनाच॑नपराश्च सम्यग्दृशः, श्रयन्ति त इहाङ्गिनः सुरवरायुरेवं गुणाः ॥४३६॥ अर्हत्सिद्धश्रुताचार्यसङ्घादीनां सुभक्तितः ।
शुक्लध्यानाच्च गच्छन्ति, मानवाः पञ्चमी गतिम् ॥४३७॥ काव्यम्- भ्रमतु वसुधां पातालं वा विशत्वविशङ्कितः,
श्रयतु शिखरं शैलस्यापि प्रयातु दिशो दिशम् । विहरतु पुमान् द्वीपाद्वीपं विलङ्ख्य पयोनिधि, न फलति पुनः पापारम्भे कदापि समीहितम् ॥४३८॥ ज्ञात्वैवं लघुकर्माणो, रौद्रार्तध्यानवर्जनात् । धर्मे चित्तं स्थिरं कुर्युर्वाञ्छितार्थस्य सिद्धये ॥४३९॥ अथोचे नृपतिः पूज्य ! त्वं प्रसाद विधाय मे । षोडशद्रव्यकोट्यादेर्देहि प्रश्नस्य चोत्तरम् ॥४४०॥ गुरुरूचे कलिङ्गाख्ये, देशे कनकपत्तने । लक्ष्मीवान् ललिताङ्गोऽभूत् , तस्य लक्ष्मीवती प्रिया ॥४४१॥ दक्षा तुष्टा प्रियालापा, पतिचित्तानुवर्तिनी । कालौचित्याद्व्ययकरी, या सा लक्ष्मीरिवापरा ॥४४२।। चातुर्यमार्जवं शीलं, रूपलावण्यसम्पदः । सुवाक्यमल्पभाषित्वं, यासां तास्तीर्थभूमयः ॥४४३।। सम्यक् सर्वज्ञधर्मं स, चकार प्रियया सह । पौषधं देवपूजां च, संविभागं मुनेर्व्यधात् ॥४४४॥
25