________________
[१०९
तृतीयः पल्लवः]
स श्रेष्ठी कमलपुरवास्तव्यो भग्नपोतकः । तीरं नवदिनैः प्राप्त, आनेतव्यस्त्वया गृहे ॥४२२॥ स ग्रहीष्यति ते विद्या, त्वत्पुत्रीं परिणेष्यति । इत्युक्त्वा सा गता देवी, ततस्त्वं मिलितो मम ॥४२३।। तेनाहं तव वात्सल्यं, कुइँ त्वं मम पुत्रवत् । ततो मह्यं ददौ विप्रः, सर्व्वविद्यां च नन्दिनीम् ॥४२४॥ कियत्यपि गते काले, गतः स्वर्गं स वाडवः । द्विजपुत्र्या युतस्तत्र, स्थितोऽहं मोदयोगतः ॥४२५।। भुज्जानस्याथ भोगान् मे, सुतोऽभूद् धनदाभिधः । सोऽप्यष्टवार्षिको जातः, सर्वविद्यां पपाठ च ॥४२६।। गृहभारं समारोप्य, नन्दनेऽथ मया व्रतम् । सिंहदत्तगुरोः पार्श्वे, गृहीतं भार्यया सह ॥४२७।। प्राप्तसूरिपदो ज्ञानी, सोऽहमत्र समागतः । हे पुत्रि ! तव माता सा, भग्नपोता जलेऽपतत् ॥४२८।। तदाऽऽर्तध्यानतो मृत्वा, मीनीभूत्वा पुनर्मृता । मर्कट्येषाऽभवत् दृष्ट्वा, मां जातिस्मृतिमाप च ॥४२९।। पूर्वस्नेहादिहागत्य, विष्वग् भ्रमति नृत्यति । श्रुत्वैवं मर्कटीं स्पृष्ट्वा, रुरोद धनवत्यथ ॥४३०॥ हा मातः ! किमिदं जातं, क्व त्वं नारी क्व मर्कटी ? । तदोक्तं गुरुणा वत्से !, 'विषमो भववारिधिः' ॥४३१॥ आर्त्तरौद्रेतिदुर्ध्यानात् , तिर्यग्नारकयोनिषु ।
जायन्ते प्राणिनः सर्वे, स्वस्वकर्मप्रभावतः ॥४३२॥ काव्यम्- महारम्भासक्ताः सततममितैः पातकपदैः,
परिस्पन्दैर्युक्ता विहितबहुपञ्चेन्द्रियवधाः । महालोभा रौद्राध्यवसितसमेतोग्रमनसो, विशीला मांसाशा दधति नरकायुस्तनुभृतः ॥४३३॥
15