________________
[धर्मकल्पद्रुमः यदा तव विवाहाय, गच्छतां नौ महोदधौ । भग्नः पोतस्तदा लब्धं, मयैकं फलकं महत् ॥४०९॥ तरता तेन सम्प्राप्तं, तटञ्च नवभिर्दिनैः । अग्रे प्राप्तं पुरं तत्र, मां दृष्ट्वैको द्विजोऽवदत् ॥४१०।। धनसार ! त्वमागच्छागच्छ प्रोक्त्वे(च्ये)ति सादरम् । सविस्मयं गृहीत्वा मां, ययौ विप्रो निजे गृहे ॥४११॥ कारयित्वा सुवेषं मे, भक्ति चक्रे नवां नवाम् । तदा विप्रो मया पृष्टः, कोऽर्थो हि मम पालने ? ॥४१२।। कथं जानासि मे नाम ?, मया त्वं नोपलक्ष्यसे । इत्युक्ते ब्राह्मणोऽवादीदिदं शङ्खपुरं पुरम् ॥४१३।। विप्रोऽहं जिनधर्मज्ञो, जिनशर्मेति नामतः । अपुत्रत्वे मया ध्याता, कुलदेवी जगौ स्फुटम् ॥४१४॥ महन्निकाचितं कर्म, पूर्वोपार्जितमस्ति ते । सुरासुरनरैः सर्वैर्यन्न हर्तुं हि शक्यते ॥४१५।। ईप्सितं मनसः सर्वं, कस्य संपद्यते सुखम् ? ।
कायत्तं जगत्सर्वं, तस्मात् सन्तोषमाश्रय ॥४१६॥ यतः- यद्वज्रमयदेहास्ते, शलाकापुरुषा अपि ।
न मुच्यन्ते विना भोगं, स्वनिकाचितकर्मणः ॥४१७॥ मयोक्तं देवि ! मच्चित्ते, सन्तोषः कर्मनिश्चयात् । अस्त्येव नास्ति च भ्रान्तिः, शृणु वाक्यमिदं पुनः ॥४१८।। मत्तः पश्चात् तवार्यों कः, करिष्यति सुतं विना ? | पुनर्मेऽस्ति वरा विद्या, सा विच्छेदं हि यास्यति ॥४१९।। स एव मे विषादोऽस्ति, तेनैवं याच्यते सुतः । देव्यूचे शृणु सत्येन, नास्ति पुत्रस्तवाङ्गजः ॥४२०।। पालकस्ते सुतो भावी, धनसाराभिधो वणिक् । एषोऽद्यदिवसाद् षड्भिर्मासैरत्र समेष्यति ॥४२१।।
25