________________
[१०५
तृतीयः पल्लवः]
पुरमध्ये श्रेष्ठिपदं, सुलसाय ददौ नृपः । सुखेन गमयामासुः, कालं राजादयस्त्रयः ॥३७४।। पद्मिनीप्रमदाप्राप्त्या, पूर्वपुण्याच्च भूपतिः । प्रतापाक्रान्तभूखण्डः, स त्रिखण्डाधिपोऽभवत् ॥३७५।। साधिताः सकला भूपाः, कृता नमितकन्धराः । राज्ञा न्यायैकधर्मेण, प्रजानां च सुखं कृतम् ॥३७६।। अथान्यदा कियत्कालेऽमरकेतुनरेशितुः । गृहीतं वैरिणा सच, राज्यं देशधनान्वितम् ॥३७७॥ सकुटुम्बोऽथ नंष्ट्वा स, राजा तत्रागतः स्वयम् । यत्रास्ति यमुनाभर्ता, राजा मकरकेतनः ॥३७८।। राज्ञीवचनतो राज्ञा, सन्मान्य श्वशुरं निजम् । दत्त्वा वाहनदेशादि, स्थापित स स्वसंनिधौ ॥३७९।। अथ ये रिपवः सर्वे, पुरीरत्नावतीस्थिताः । तत्र सैन्यं निजं प्रेष्य, तेऽपि निष्काशिताः क्षणात् ॥३८०॥ भूपस्यामरकेतोश्च, सुरकेतुः सुतस्ततः । प्रेष्य रत्नावतीराज्ये, स्थापितः सैन्यसंयुतः ॥३८१॥ अथ सर्वेऽपि ते जाता, जिनधर्मपरायणाः । दृष्ट्वा पुण्यप्रभावञ्च, धम्मिष्ठा यमुनाऽभवत् ॥३८२।। यमुनायां सुतो राज्ञो, बभूव मदनाभिधः । राज्ये संस्थाप्य तं राजा, वृद्धत्वे व्रतमग्रहीत् ॥३८३॥ चिरं चारित्रमाराध्य, राजर्षिर्यमुनायुतः । प्राप कर्मक्षये मोक्षमनन्तसुखमव्ययम् ॥३८४।। यथा यमुनया धर्मफलं प्राप्तमिहैव हि । धर्मस्तथैव सर्वेषां, फलत्यत्र परत्र च ॥३८५॥
इति श्रीयमुनाकथा धर्मविषये ॥