________________
[धर्मकल्पद्रुमः
ततः- देशनान्ते नराधीशः, पप्रच्छ मुनिपुङ्गवम् ।।
कथं सौभाग्यकलशः, पूर्वं निःस्वः सुखी ततः ? ॥३८६।। सूरिरूचे कुम्भपुरे, वाणिजो विक्रमोऽभवत् । धनाढ्यो धर्मवान्नित्यं कृत्यं धर्मस्य योऽकरोत् ॥३८७॥ जिनपूजां करोति स्म, दानं दत्ते स्म भावतः । गृहकर्माणि सर्वाणि, यश्चक्रे कृपयाऽन्वितः ॥३८८।। अन्यदा व्रजतो मार्गे, तस्य कुष्ठी नरोऽमिलत् । तमालोक्य कृता तेन, दुगुञ्छा तस्य निन्दया ॥३८९।। एकदा स्वकुटुम्बं च, प्रलम्बं वीक्ष्य विक्रमः । मदं चित्ते चकारैवमहो मे विपुलं कुलम् ॥३९०।। यस्य कस्य कृतो गज़स्तत्सर्वं हीनमाप्यते ।
तस्माद्विवेकिना त्याज्या, मदा अष्टावपि ध्रुवम् ॥३९१॥ यतः- जातिलाभकुलैश्वर्यबलरूपतपःश्रुतैः ।।
कुर्वन्मदं पुनस्तानि, हीनानि लभते जनः ॥३९२॥ [ यो.शा./४/१३ ] नालोचना कृता तेन, जुगुप्सामदकर्मणः । स मृत्वा सुन्दरसुतो, नाम्ना दुर्गक इत्यभूत् ॥३९३॥ गर्व्वतः कुलनाशोऽभूत् , दुःख्यभूत्कुष्ठिनिन्दया । कुलगर्वान्नीचकुलं, लभते हि मरीचिवत् ॥३९४।। प्राग्भवे यत्कृतं पुण्यं, भवे चास्मिन् विशेषतः । तेन पुण्येन राज्याधु, लेभे कन्यायुगं त्वसौ ॥३९५।। इति श्रुत्वा प्रबुद्धोऽथ, जामात्रा सह भूपतिः । ताभ्यां धर्मं विधायान्तेऽनशनं जगृहे मुदा ॥३९६।। तौ स्वर्गेऽथ समुत्पन्नौ, ततश्च्युत्वा तु मानुषम् । भवं प्राप्य गृहीत्वा च, संयमं जग्मतुः शिवम् ॥३९७।।
इति निन्दायां गर्वे च दुर्गककथा ॥
20
25