________________
[धर्मकल्पद्रुमः इन्धनार्थमरण्ये सा, नित्यं यात्यतिदुःखिनी । क्षुत्पिपासे सहेन्नित्यं, पूर्वदुष्कृतयोगतः ॥३६१।। गच्छन्त्या अन्यदाऽरण्ये, काष्ठानयनहेतवे । मार्गेऽस्या मिलितः साधुः, जीवानिमित्तवत्सलः ॥३६२॥ महर्षिमुखतः श्रुत्वा, धर्मं शुद्धं सुमानसा ।। साधयामास सा नित्यं, पुण्यं सद्भावसंयुता ॥३६३।। षष्ठाष्टमतपश्चक्रे, जिनाचा जिनवन्दनम् । सम्यक्त्वादिव्रतैर्युक्तं, गृहिधर्ममपालयत् ॥३६४।। जिनधर्मप्रभावेण, सा क्रमेण सुखिन्यभूत् । गृहे च वल्लभा जाता, दुर्भगा सुभगाऽभवत् ॥३६५।। इतश्च तत्पुरक्ष्मापपुत्रो मकरकेतनः । यक्षमाराधयामास, महान्तं सत्प्रियेच्छया ॥३६६।। तुष्टं यक्षं ययाचे स, भार्यां चातुर्यशालिनीम् । प्रधानगुणसंयुक्तां, राज्याभ्युदयकारिणीम् ॥३६७।। यक्षो जगाद हे भद्र !, शृणु त्वं कथयामि यत् । रत्नावतीपुरीस्वामी, नृपोऽस्त्यमरकेतनः ॥३६८।। तस्य रत्नावतीपत्न्यां, नन्दिनीसप्तकोपरि । प्रसूता चाष्टमी पुत्री, क्षिप्ता पेटान्तरेऽथ सा ॥३६९।। वाहिता यमुनानद्यां, सप्तयामैरिहागता । गृहीता सुलसेनाथ, तद्गृहे साऽस्ति पद्मिनी ॥३७०॥ सैषा ते भाविनी भार्या, राज्याभ्युदयकारिणी । तव पुण्यप्रभावेण, मया दत्ता महाशय ! ॥३७१।। इति श्रुत्वा गतो गेहे, हर्षान्मकरकेतनः । आनाय्य परिणीता सा, विधिना पितुराज्ञया ॥३७२॥ कुमारः सोऽथ कालेन, जातो राज्यधुरन्धरः । यमुना पट्टराज्ञी च, सञ्जाता पुण्ययोगतः ॥३७३॥