________________
तृतीयः पल्लव:]
[१०३ यास्त्रिलोकेऽपि दृश्यन्ते, प्राप्तयः सुखदुःखयोः । जानीहि ताः फलं भद्र !, प्रकटं पुण्यपापयोः ॥३४८॥ वशीभवन्ति विश्वानि, प्रलीयन्ते च शत्रवः । सम्पदश्च विजृम्भन्ते, पुण्यपण्यानुभावतः ॥३४९॥ यथा पूर्वं भूपपुत्र्या, धर्म आराधितो महान् ।
इहैव फलितः सद्यः, श्रूयतां तन्निदर्शनम् ॥३५०॥ तथा च- यमुनावाहिनीतीरे, पुरी रत्नावती वरा ।
भूपोऽत्रामरकेतुस्तु , जज्ञे रत्नवती प्रिया ॥३५१।। जातास्तस्य सुताः सप्त, बभूव पुनरष्टमी । सा मञ्जूषाऽन्तरे क्षिप्ता, जातमात्रैव खेदतः ॥३५२॥ मुक्ता च यमुनानद्यां, सवस्त्रा तु तदम्बया । सप्तयामैः समायाता, ततः पद्मपुरे पुरे ॥३५३॥ सुलसोऽस्ति वणिक् तत्र, सप्तपुत्रीसुदुःखितः । दृष्टा सा तेन मञ्जषा, गच्छन्ती यमनाजले ॥३५४|| नद्यां प्रविश्य दक्षेण, पेट निष्काशिता जलात् । गृहीत्वा चागमद् गेहे, पेटिकोद्घाटिता ततः ॥३५५।। स तामालोकयद् यावत् तावदैक्षत बालिकाम् । ततोऽजल्पत् करौ घर्षन् , हा हा दैवेन किं कृतम् ? ॥३५६।। पुण्योदयं विना लोके, यत्र तत्र गतो नरः । वाञ्छितं लभते नैव, विपरीतं भवेत् पुनः ॥३५७॥ अग्रेऽपि सप्त मे पुत्र्यः, सन्ति प्राप्ताष्टमी त्वसौ । एकोऽपि नन्दनो नास्ति, किं करोमि क्व याम्यहम् ? ॥३५८।। एवं स खेदसंयुक्तः, कृपया तामपालयत् । यमुनेति कृतं नाम, यौवनं प्राप सा क्रमात् ॥३५९॥ पुत्रीबाहुल्यतः साऽथ, पालकत्वाच्च श्रेष्ठिनः । अवल्लभा दरिदेव, रुलति स्म दिवानिशम् ॥३६०।।