________________
[धर्मकल्पद्रुमः गतायां मन्त्रिनन्दिन्यां, दुर्गकोऽचिन्तयत् तदा । विज्ञोक्तं मिलितं किञ्चित् सा वधूः क्व गता परम् ? ॥३११।। उत्थायासौ ततो रात्रौ, तां द्रष्टुमगमत् पथि । उद्योते तद्गवाक्षाधो, दृष्ट्वा सरज्जुमञ्चिकाम् ॥३१२॥ विनोदेनोपविष्टोऽसौ, मञ्चकोपरि दुर्गकः । रज्जुचालनतो ज्ञातः, कन्यया वर आगतः ॥३१३।। आकृष्य मञ्चिकामूर्ध्वं, नीतो दासीभिराशु सः । अस्तङ्गतस्तदा दैवाद् दीपश्चीवरवायुना ॥३१४।। कृत्वा विवाहसामग्री, सारशृङ्गारपूर्वकम् । उत्सुकत्वादन्धकारे, परिणीतः स कन्यया ॥३१५।। ततोऽनङ्गश्रिया जाते, विवाहे हर्षपूर्णया ।। दक्षाभिर्निजचेटीभिरेवमालापितः पतिः ॥३१६।। स्वामिन् ! वेला कथं लग्ना ? शरीरे कुशलं तव ? । दुर्गकः स्माह भो भद्राः !, परग्रामादिहागतः ॥३१७॥ परग्रामागमं श्रुत्वा, ज्ञात्वा स्वरविपर्ययम् । शङ्कया कृतदीपेन, साऽपश्यत् तं नरं परम् ॥३१८।। पश्चात्तापपरा जाता, तं नि:स्वं वीक्ष्य भूपजा । दासीनां कथितं चाथाधमोऽयं मुच्यतामधः ॥३१९।। उत्तारितो गवाक्षात् स, तस्मिन् शून्यापणे गतः । सुप्तः शेषनिशायाञ्च, कौतुकं चिन्तयन् हृदि ॥३२०।। अथ जाते प्रभाते स, सचिवः सुमतिः स्वयम् । विलोकनाय जामातुर्निर्गतो नगरान्तरे ॥३२१॥ दृष्टः शून्यापणे सुप्तः, स वर: कुङ्कमार्चितः । विवाहवेषसंयुक्तः, सुशृङ्गारश्च मन्त्रिणा ॥३२२।। उत्थाप्यासौ निजं गेहमानीतो बहुमानतः । राज्ञाऽपि तद्दिने पुत्र्या वृत्तान्तो ज्ञात आदितः ॥३२३॥